2023-03-13 13:35:26 by ambuda-bot
This page has not been fully proofread.
T
१४८ ]
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क ६८ व्याख्या
वपुः शरीरं यस्य स तीक्ष्णाग्रधाराशतनिशितनपुः, वज्रोऽप्येवंविध एव, पादश्चायं
योषितः स्त्रियः, स कथंभूतः, सरोजद्युतिरनतिगुरु: सरोजस्येव द्युतिरस्येति विग्रहः,
अतीवगुरुः प्रतिगुरुः न अतिगुरु: अनतिगुरुः, एवंविधोऽपि महिषो देव्या
इत्थंभूतेनापि चरणेन मथित इति त्रिभुवनगुरूणां विस्मयः ॥१७॥
वज्ज्रित्वं वज्ज्रपाणेर्दितितनयभिदः' शार्ङ्गिणश्चक कृत्य
शूलित्वं शूलभर्तुः सुरसमितिविभोः शक्तिता परामुखस्य ।
यस्याः पादेन सर्व्वं कृतममररिपोर्बाधयैतत्सुराणां
२
3
रुद्राणी पातु सा वो दनुविफलयुधां स्वर्गियां क्षेमकारी ॥१८॥
कुं०वृ० - सा रुद्राणी वः पातु, किंभूता दनुविफलयुधां दानवेषु विफल-
संप्रहाराणां स्वर्गिणां क्षेमकारी, क्षेमं करोतीति क्षेमप्रियमद्वेष्विति प्रण्,
टिड्डाणञ, इति ङीषि रूपं, सा का, यस्याः पादेन भ्रमररिपोर्बाधया सुराणां
सर्व्वमेतत्कृतं, कि तदित्याह वज्रपाणेरिन्द्रस्य वज्रित्वं महिषे हते जातं, सति तु न
वज्ज्ज्रं बभारेत्यर्थः, दितितनयभिदो दैत्यद्रुहः शाङ्गिणः चक्रित्वं चक्रकृत्यं चक्रकार्यं,
अनुच, सुरममित्ये (तो) देवसभायां विभोर्महेश्वरस्य शूलभर्तु रपि शूलिकार्यकारित्वं
तथा षण्मुखस्य कार्तिकेयस्य शक्तिमत्त्वं, एता: सर्व्वा: संज्ञा गुणतो महिषं हत्वैव
यस्याश्चरणेन सुराणां विहिता सा वः पातु इति फलितार्थः वज्रत्वं वज्रपाणी
शूलत्वं इति च पाठान्तरे अकारोऽत्र मत्वर्थीय. कल्पनीयः । ६८॥
सं०व्या० - ६८. वन्त्रित्वमिति ॥ सुराणां रिपु सुररिपुः तस्य सुररिपो-
दितितनयभृतः दैत्यबालस्य बाघया पीडया यस्याः पादेनाङ्घ्रिणा सुराणां सर्व-
मेतत्कृतं निर्वर्तितं सा रुद्राणी रुद्रपत्नी वो युष्मान् पातु रक्षतु, किंविशिष्टानां दनु-
विफलयुधां दनुषु दनुजेषु विफलं निष्फलं युद्धं येषां ते तथोक्तास्तेषामिति विग्रहः,
कि तस्य कृतमित्याकाङ्क्षायां ग्राह, वज्रित्वं वज्रपाणेरित्यादि, वज्रित्वं वज्र-
भावो वज्रपाणे: इन्द्रस्य, चक्रकृत्य रथाङ्गकार्य शाङ्गिणो विष्णोः, शूलित्वं शूल-
भावोऽपि शूलभतु : शूलधरस्य, सुराणां समितिः सभा सुरसमितिस्तस्या विभोः
स्वामिनः षण्मुखस्य स्कन्दस्य शक्तिता शक्तिभावः कृतः इति सम्बन्धः,
एतदुक्तं भवति वज्रादिभि: शत्रूणां वध: त्रियते साध्यते (तत्) कर्तुं मशक्ता
देव्याश्चरणेन कृतवन्तः प्रतश्चेन्द्रादीनां वज्रिभावोऽवगत इति ॥८॥
१. ज. दितितनुजभृतः; दितिदनुजभिद इति पावें, का. प्रती टिप्पण्याञ्च ।
२. का. चक्रिरणश्चऋकृत्य ।
३. ज. का. सुरकटकविभोरित्यतिरिक्तः पाठः ।
CC-0. RÔRI. Digitized by Sri Muthulakshmi Research Academy