2023-03-27 19:15:37 by manu_css
This page has been fully proofread once and needs a second look.
हननेन भुग्नं कुटिलीभूतं आपातभुग्नस्तस्मिन् आपातभुग्ने सति मूर्ध्नि शिरसि,
पुनरपि किंविशिष्टः निःशब्दकण्ठः निःशब्दो विगतशब्दः कण्ठो यस्येति विग्रहः ॥९५॥
पादोत्क्षेपाद्व्रजद्भिर्नखकिरणशतैर्भूषितश्चन्द्रगौरै-
र्मूर्द्धाग्रे वापतद्भिश्चरणतलगतैरंशुभिः[^१] पद्मशोणः[^२] ।
सन्यस्तालीनरत्नप्रविरचितकरैश्चर्चितः क्षिप्तकायै-
र्यस्या देवै: प्रणीतो हविरिव महिषः साऽवतादम्बिका वः ॥९६॥
कुं० वृ०--साऽम्बिका वोऽवतात्, सा का यस्याः मूर्द्धाग्रे देवैर्महिषः प्रणीतः उप-
नीतः, किमिव हविरिव सुसंस्कृत उपहार इव, किंभूतं हविर्महिषश्च, उभयोः साधर्म्य-
माह, नखकिरणशतैर्भूषितः नखानां किरणास्तेषां शतानि तैः, किंभूतः नखकिरण-
शतैः, पादोत्क्षेपात् चरणस्य ऊर्ध्वं नयनात् उद्गच्छद्भिः, किंभूतैश्चन्द्रगौरैः चन्द्रो-
ज्वलैः; अनु च, मूर्द्धाग्रे आपतद्भिरागच्छद्भिः चरणतलगतैरंशुभिः किरणैः पद्मशोणः
पद्मवदारक्तः, चरणतलस्य रक्तत्वात् रक्तांशुमत्त्वं; अनु च, सन्यस्तालीनरत्नप्रविर-
चितकरैश्चर्चितः पूजितः, सम्यङ् न्यस्तानि अत एव आलीनानि रत्नानि येषु ते तथा
तथा प्रविरचिता विभागेन विरचिताः कराः प्रविरचितकराः सन्यस्तालीनरत्नाश्च
ते प्रविरचितकराश्च तैस्तथा, किंविशिष्टैर्देवैः, क्षिप्तकार्यः क्षिप्तो दण्डवत् कायो
यैस्ते, तथा हविरिव उपकल्प्यमानो महिषो वा कुंकुमचन्दनादिना रक्तश्वेतो भवति
पुष्पैश्चर्चितो भवति, विभूषितो बलिर्देय इति च, एवं महिषोपहारतुष्टा भवानी
युष्मभ्यं तुष्टिं ददातु इति वाक्यार्थः ॥९६॥
सं० व्या०--९६. पादोत्क्षेपादिति ॥ यस्या अम्बिकाया देवैर्हविरिव संस्कृतं
हव्यमिव महिषश्चर्च्चितः उक्तप्रकारेण पादतलेन नखरत्नधवलप्रभाभिरिव लिप्तः
प्रणीतः उपनीतः सा अम्बिका गौरी वो युष्मान् अवतात् रक्षतु, किंविशिष्टैः देवैः
सन्यस्तालीनरत्नप्रविरचितकरः क्षिप्तकायैः, सन्यस्तानि रत्नानि आलीनानि
आलिप्तानि सन्यस्तालीनरत्नानि तैः प्रविरचिता आभूषिताः करा येषां तैः
तथोक्तास्तैः, वामं न्यस्तानि त्यक्तानि आलीनानि आलिप्तानि रत्नानि यैस्तैः
तथोक्तैः, क्षिप्तो निहतः कायो यैरिति विग्रहः महिषापमानादिति भावः, किंवि-
शिष्टो महिषः पादस्योत्क्षेपः ऊर्ध्वप्रेरणं पादोत्क्षेपस्तस्मात् पादोत्क्षेपात् व्रजद्भिर्नख-
किरणशतैश्चन्द्रगौरैः चन्द्रवदावदातैर्भूषितोऽलङ्कृतः, पुनरपि किंविशिष्टः
---------------------------
[^१] का० मूर्धाग्रे चापतद्भिश्चरणतलगतैरंशुभिः ।
[^२] का० शोणशोभः ।