This page has not been fully proofread.

१४४ ]
 
महाकविवाण-विरचितं चण्डीशतकम्
 
मार्गं शीतांशुभाजां सरभसमलघु हन्तुमुद्यन् सुरारिं
नेत्रैरुद्द्वृत्तपत्रै ः' सचकितमसुरै रुन्मुखैर्वीक्ष्यमाणः ।
यस्या वासो महीयान् मुदितसुरमनाः प्राणहत् पादपद्मः
प्राप्तस्तन्मूर्धसीमां सुखयतु भवतः सा भवानी हतारिः ॥१४॥
 
[पद्याङ्क ६४ व्याख्या
 
कुं०वृ० – सा हतारिर्व्यापादितशत्रुर्भवानी वः सुखयतु, सा का यस्या वाम-
पादपद्मः मुदितसुरमना आसीत्, मुदितानि सुराणां मनांसि येन स तथा,
किंविशिष्ट: तन्मूर्द्धसीमां प्राप्तः, तस्य महिषस्य मूर्द्धा तस्य सीमा तो प्रत एव
प्राणहृत् अर्थान्महिषस्य प्राणहरः, पुनः किंविशिष्टः महीयान् महत्तरः, पुनः
किं विशिष्टः सुरारि हन्तुं शीतांशुभाजां नक्षत्राणां मार्ग उद्यन् उद्गच्छन्, कथं
यथा भवति सरभसं यथा भवति तथा, किंविशिष्टं नक्षत्रमार्ग, लघु प्रकाशस्य
महत्परिमाणत्वात्, किंविशिष्टं सचकितं यथा भवति तथा प्रसुरैः ईक्ष्यमाणः,
किविशिष्टैरसुरैः, उन्मुखैरूर्द्ध ववक्त्रैः, कैः नेत्रः, किविशिष्ट : उद्वृत्तपत्र: उद्-
वृत्तानि ऊद्भू वं वलितानि पत्राणि पक्ष्मदेशा येषां तानि ॥१४॥
 
सं०व्या० ६४.- मार्गमिति ॥ हतोऽरिमंहिषो यया सा हतारिः भवानी
भवपत्नी वो युष्मान् सुखयतु सुखिनः करोतु, यस्या वामः दक्षिणेतरो महीयान्
महत्तरः प्राणहृत् प्राणान् हरिष्टान् पादपद्मश्चरणसरोजो मूर्द्धसीमां तदीयशिखरा-
वधि प्राप्तो गतः, किंभूतो मुदितसुरमना: मुदितानि हृष्टानि सुराणां मनांसि येन
स तथोक्तः यत एव महिषस्य प्रारणहृत् पादपद्मस्तत एव मुदितसुरमनाः, किं
कुर्वन् तन्मूर्द्धसीमां प्राप्तः सुरारि देवशत्रु अलघु महान्तं सरभसं सोत्कर्षं
हन्तु उद्यत् उत्पतत् कं मार्ग पन्थानं, केषां शीतांशुभाजां नक्षत्राणां शीतांशु
भजन्तीति, 'भजेः विण्', कि क्रियमाणोऽघ्रिपद्मः उद्यत् उत्पतत् वीक्ष्यमाणो
विलोक्यमानः, कंः श्रमरैर्देवैः उन्मुखंरूर्द्ध
वमुखैः सचकितं यथा भवत्येवं, कैः करण-
भूतैर्वीक्ष्यमाणो नेत्रैः नयनः उद्वृत्ततारैः उत् ऊर्ध्वं वृत्तानि तारकाणि येषां ते
इति विग्रहः ॥१४॥
 
T
 
१. ज० का० नेत्र रुद्द्त्ततारैः ।
२. ज. सचकितममरुन्मुखर्वीक्ष्यमाणः ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy