This page has not been fully proofread.

१४२ ]
 
महाकविवाण-विरचितं चण्डीशतकम्
 
प्रयतमानस्य तस्य मूलमपि विनष्टं यतः स एव पादपद्मः प्राणहरो जात:; अत्र
रुद्राण्येति पदं हरनिन्दार्थं प्रवृत्ते तस्मिन् सकोपायां औचित्यमावहतीति श्रौचित्या-
लङ्कारः, स्थाणुः कीलको हरश्च तोयस्य स्थानमिति, अथवा तोयं स्थानमस्येति
बहुव्रीहिः; तथा तोयस्थानं पङ्कः पद्मश्चेति श्लेषालङ्कारोऽपि विरोधव्यतिरेको
चेति ॥२॥
 
सं० व्या० - ६२. स्थाणाविति ॥ स्थाणौ शङ्करे छलपक्षे खुंटे नुदति
प्रेरयति सति, नोऽस्माकं नवकण्डूविनोदः कण्ड्वा व्युदास इति एतदुक्तं भवति, यो
हि स्थाणुः स्थिरो न भज्यते न च नमति तत्र कण्डूविनोदोऽयं तु न तथाविध इति
अङ्गानि पादादीनि तेषां जातं समूहोऽङ्गजातं नोऽस्माकं दिनकृततेजसा श्रादित्य-
तेजसा तापितं दग्धं, तोयस्थानेनाधिकतरं पटुतरं सुखमाप्तं धिगिदं निन्दिततम-
मेतन्माहिषं रूपं हि स्फुटमस्माकमेव मित्थं युद्धभूमौ रणभुवि शङ्करादिरहितायां
वदति ऋवाणे ? ) महिषे महिषासुरे रुद्रपत्न्या आरोपितो न्यस्तः प्राणहृत् प्राणहर:
पादपद्मः चरणपङ्कजः वो युष्मान् सुखयतु सुखिन: करोतु, रुद्राण्येव रुद्रः भूतः
मुढानामामुकतेति ('इन्द्रवरुणभव शर्वरुद्र मुडहिमाख्ययवयवनमातुलाचार्याणामानुकू'
इति ङीप् ) ङीप् ॥१२॥
 
पद्याङ्क ६२-६३ व्याख्या
 
पिंषन् शैलेन्द्रकल्पं महिषम तिगुरुर्भग्नगीर्वाणगर्व्वः'
शम्भोर्यातो लघीयान्' श्रमरहितवपुदूरमभ्यूह्यपातः
वामो देवारिपृष्ठे कनकगिरिसदां क्षेमकारोंऽह्रिपझो
 

 
यस्या दुर्वार एवं विविधगुणगतिः साऽवतादम्बिका वः ॥१३॥
 
-
 
कुं०वृ० - सा अम्बिका वोऽवतात्, सा का यस्या वामांऽह्रिपद्मोन एवं
विविधगुणगतिः, विविधा गु ( 42b) णानां गतिर्यस्य स तथा, कथं तदाह विशेषण-
द्वारा, किंविशिष्ट: पादपद्मः प्रतिगुरुः अतिशयेन गरीयान्, कि कुर्व्वन् शैलेन्द्र -
कल्पं महिषं पिषन् सञ्चूर्णयन्, शैलानामिन्द्रः शैलेन्द्र ईषदपरिसमाप्तः शैलेन्द्रः
शैलेन्द्रकल्पस्तं हिमाद्रेः किञ्चिन्यून, पुनः किं विशिष्टं भग्नो गीर्वाणानां गर्यो
येन, अत्र महिषं पिषता देवगर्यो भग्न इति विविधत्वं, अन्यदारभतो अन्यत्कृतं
 
T
 

 

 
१. का० भग्नगीर्वाणगर्व; शीरगंगीर्वाणगर्वमिति विशेषः पाठः ।
 
२. ज० का० जातो ।
 
३. गरीयानिति का० टिप्पणे ।
 
४. का० वपुयंस्त उत्पात्य कोपादिति टिप्पण्याम् ।
 
५. का० क्षेमकारो हि यस्याः पादोऽतुल्यप्रभाव इति विशेषः पाठः प्रदर्शितः
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy