2023-03-31 06:47:56 by manu_css
This page has been fully proofread once and needs a second look.
स्थाणौ कण्डूविनोदो नुदति[^१] दिनक्कृतस्तेजसा तापितं न[^२]
तोयस्थाने[^३] न वाप्तं[^४] सुखमधिकतरं गाहने नाङ्गजातम् ।
शून्यायां युद्धभूमौ वदति हि धिगिदं माहिषं रूपमेवं[^५]
रुद्राण्याऽरोपितो वः सुखयतु महिषे प्राणहृत् पादपद्मः ॥९२॥
कुं० वृ०--रुद्राण्याः पादपद्मो वो युष्मान् सुखयतु, किंलक्षणः पादपद्मः,
पद्मशब्दो वा पुंसि पद्ममिति पुंल्लिङ्गः, किंविशिष्टः पादपद्मः, रुद्राण्या
रुद्रशक्त्या रुद्रभार्यया महिषे[42a] आरोपितः, किंलक्षणः पादपद्मः, प्राणहृत्
प्राणान् हरतीति प्राणहृत् मरणदाता अर्थान्महिषस्य, किंलक्षणे महिषे
शून्यायामिति रुद्रादिरहितायां युद्धभूमौ एवं वदति सति, एवमिति किं, इदं
नोऽस्माकं माहिषं रूपं धिक्, अस्माकमिति बहुरूपापेक्षया बहुवचनं, एकस्य
निन्दनादितरसद्भावो द्योत्यते; तथा च, न हि निन्दा निन्द्यं निन्दितुं प्रवर्त्तते
किन्तु निन्द्यादितरं स्तोतुं इति न्यायात्, माहिषमिति धिग्योगे द्वितीया, कथं
निन्द्यमिति तदेव विवृण्वन्नाह, महिषस्य खलु व्यसनद्वयं भवति, स्थाण्वादौ घर्षणेन
कण्डूविनोदोऽनु च कर्द्दमलोलनञ्च, तच्च यदैकत्रोभयमापद्यते तदा सुखाय भवति,
व्यस्तं सत् विपर्यासाय, इदं च विरुद्धद्विकं, स्थाणोः स्थलाश्रयत्वात् तोयस्थानस्य
जलाश्रयत्वं, सार्वजनीनत्वेन निगदव्याख्यानं, तच्च माहिषरूपे विषमां दशां आवहती-
त्युच्यते, कण्डूविनोदो नोऽङ्गजातं सर्वाण्यङ्गानि इति समूह्यार्थं अङ्गजातमिति
प्रयोगः, अङ्गजातं स्थाणौ स्थाणुविषये नुदति प्रेरयति, कण्डूं ज्ञात्वा तद्विनोदार्थं
स्थाणुं प्रति यामीति विनोद एव प्रेरणकर्त्तृत्वेन प्रतीयते, इदं कृत्वा अचेतनस्य
कथं प्रेरणकर्त्तृत्वं इति न पर्यनुयोज्यं, अचेतनस्य क्षीरादेः प्रवृत्तेदर्शनात् ; अनु च
सुखकर्तृतदेवाङ्गजातं तोयस्थाने नुदति, तोयस्य स्थानं तोयस्थानं सान्द्रकर्द्दमो
देशः अधिकतरं गाहनेन विलोडनेन अनवाप्तं अप्राप्तमिति यावत्, किंविशिष्टं
अङ्गजातं दिनकृतस्तेजसा तापितं, अवितप्तस्य जलावगाहात् क्षणं तापप्राचुर्योप-
लब्धेः, एवं विषममवस्थानं अवगाहमाने तस्मिन् रुद्राण्या पादपद्मो न्यधायीति
तस्मै द्वयमेकस्थं प्रभवति, पादः स्थाणुरूपः कण्डूं विनुदति तस्य च पद्मत्वं तोय-
स्थानत्वेन शैत्यापादनार्थं, एवं सति भवान्यामपि तद्वैषम्यविघाताय प्रवृत्तायां
महतामधिक्षेपो न कार्य इति महाजनाचारपरम्परातिक्रमलक्षणपातात्, लाभार्थं
--------------------------
[^१] का० कण्डूविनोदान्नुदतीति टिप्पणे ।
[^२] का० नो ; नः, वश्चेति पादे ।
[^३] स्थैर्यस्थाने इति प्रतौ ।
[^४] का० चाप्तं ।
[^५] ज० का० रूपमेकं ।