This page has been fully proofread once and needs a second look.

खट्वाङ्गं खड्गयुक्तं[^१] युवतिरपि विभो ते शरीरार्द्धलीना
लब्धं प्रागेव हास्यं[^२] सुरजनसमितौ दुःकृतेन त्वयैवम् ।
याता[^३] भूयोऽपि लज्जा रणत इयमलं हास्यता शूलभर्त्त-
र्दर्प्पादेवं हसन्तं भवमसुरसुमा[^४] निघ्नती त्रायतां वः ॥९१॥
 
कुं० वृ०--इत्थं वक्ष्यमाणं अमुना प्रकारेण दर्प्पात् भवं हसन्तं असुरं निघ्नती
उमा वस्त्रायतां, कथं भवं हसन्तं तदाह, हे विभो ! त्वया सुरजनसमितौ देवजन-
स्थाने देवसभायां एवं दुष्कृतेन दुश्चेष्टितेन प्रागेव हास्यं लब्धं, किं तद्दुश्चेष्टितं
तदाह, खट्वाङ्गं खड्गयुक्तं खट्वाया अङ्गं, तदेव खड्गयुक्तं खड्गमुष्टिस्थानीयं
खट्वाङ्गं, नरकपालः प्रेतनरशरीरास्थिपञ्जरः, एकं हास्यं; अन्यच्च, युवतिरपि
स्त्री ते न च (तव) शरीरार्द्धलीना, शरीरार्द्धे लीना एतदेव विकृतं रूपं हास्यहेतुः;
परन्तु, हे शूलभर्तः शूलधर ! तव रणतो यातो गच्छतो या लज्जा इयं भूयोऽपि
अलं हास्यता अत्यर्थं हास्यता; अथवा, इयं भूयोऽपि या हास्यता तया अलं पूर्यतां
एका एवास्तु ॥९१॥
 
सं० व्या०-९१. खड्गमिति ॥ असुरं महिषं निघ्नती पातयन्ती उमा गौरी
वो युष्मान् त्रायतां रक्षतु, किं कुर्वन्तं असुरं निघ्नती, एवमित्थं दर्पेण भवं शङ्करं
हसन्ती(तं), कथं हसन्तमित्याह, खड्गंं खट्वाङ्गयुक्तमित्यादि, हे शूलभर्तः ! हे
शूलघर ! प्रागेव पूर्वमेव हास्यं त्वया भवता लब्धं प्राप्तं, क्व सुरजनसमितौ
सुरलोकसभायां, एवमित्थं दुष्कृतेन दुश्चेष्टितेन, कथं दुष्कृतमिदमाह, खड्गं
खट्वाङ्गयुक्तमित्यादि, खट्वस्याङ्गं (?) खट्वाङ्गं दक्षिणेन पाणिना न युक्तं
संबद्धं खड्गं कृपाणः, युवतिरपि तरुण्यपि तव विभोः शरीरार्द्धलीना शरीरस्यार्द्धे
श्लिष्टा तदेव दुष्कृतं अतश्च हास्यं प्रागेव [दुष्टा-]चरणात् त्वया लब्धमिति,
रणतो रणात् याताऽपगता भवता च या पुनरपि लज्जा त्रपा अलमित्यर्थः, हास्यता
हास्यमिति ॥९१॥
 
--------------------------
[^१] ज० का० खड्गं खट्वाङ्गयुक्तं ; गङ्गा मौलौ विलग्ना युवतिरिति पाठः का. प्रतौ टिप्पणे
ज० प्रतौ च पार्श्वे दृश्यते ।
[^२] ज० का० हास्यं प्रागेव लब्धं; ०लग्नमिति का. टिप्पणे ।
[^३] ज० का० जाता ।
[^४] ज० हरमसुरमुमा ।