This page has not been fully proofread.

१४० ]
 
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क ६१ व्याख्या
खट्वाङ्ग खङ्गयुक्तं' युवतिरपि विभो ते शरीरार्द्धलीना
लब्धं प्रागेव हास्यं सुरजनसमितौ दुःकृतेन त्वयैवम् ।
याता' भूयोऽपि लज्जा रगत इयमलं हास्यता शूलभर्त्त-
दर्पादेवं हसन्तं भवमसुरसुमा निघ्नती त्रायतां वः ॥ ११ ॥
 
कुं० वृ० - इत्थं वक्ष्यमाणं अमुना प्रकारेण दर्षात् भवं हसन्तं असुरं निघ्नती
उमा वस्त्रायतां, कथं भवं हसन्तं तदाह, हे विभो ! त्वया सुरजनसमितो देवजन-
स्थाने देवसभायां एवं दुष्कृतेन दुश्चेष्टितेन प्रागेव हास्यं लब्धं, कि तद्दुश्चेष्टितं
तदाह, खट्वाङ्गं खड्गयुक्तं खट्वाया अङ्ग, तदेव खङ्गयुक्तं खङ्गमुष्टि स्थानीयं
खट्वाङ्गं, नरकपालः प्रेतनरशरीरास्थिपञ्जर:, एकं हास्यं; अन्यच्च, युवतिरपि
स्त्री ते न च ( तव ) शरीरार्द्धलोना, शरीरार्द्ध लीना एतदेव विकृतं रूपं हास्यहेतुः;
परन्तु, हे शूलभर्त: शूलधर ! तव रणतो यातो गच्छतो या लज्जा इयं भूयोऽपि
श्रलं हास्यता प्रत्यर्थं हास्यता; अथवा, इय भूयोऽपि या हास्यता तथा प्रलं पूर्यतां
एका एवास्तु ॥११॥
 
,
 
सं०व्या०-६१. खड्गमिति ॥ असुरं महिषं निघ्नती पातयन्ती उमा गौरी
वो युष्मान् त्रायतां रक्षतु, किं कुर्वन्तं असुरं निघ्नती, एवमित्थं दर्पेण भवं शङ्करं
हसन्ती ( तं), कथं हसन्तमित्याह, खड्ङ्गं खट्वाङ्गयुक्तमित्यादि, हे शूलभर्त: ! हे
शूलघर ! प्रागेव पूर्वमेव हास्यं त्वया भवता लब्धं प्राप्तं क्व सुरजनसमितौ
सुरलोकसभायां, एवमित्थं दुष्कृतेन दुश्चेष्टितेन, कथं दुष्कृतमिदमाह, खङ्गं
खट्वाङ्गयुक्तमित्यादि, खट्वस्याङ्गं (?) खट्वाङ्गं दक्षिणेन पाणिना न युक्तं
संबद्धं खङ्ग कृपारणः, युवतिरपि तरुण्यपि तव विभोः शरीरार्द्धलीना शरीरस्या
रिलष्टा तदेव दुष्कृतं प्रतश्च हास्यं प्रागेव [दुष्टा-] चरणात् त्वया लब्धमिति,
रणतो रणात् याताऽपगता भवता च या पुनरपि लज्जा त्रपा नलमित्यर्थः, हास्यता
हास्यमिति ॥११॥
 
T
 
१ ज. का. खङ्गं खट्वाङ्गयुक्तं; गङ्गा मौलो विलग्ना युवतिरिति पाठ: का. प्रती टिप्पणे
ज. प्रती च पार्श्वे दृश्यते ।
 
२. ज. का. हास्यं प्रागेव लब्धं; ०लग्नमिति का. टिप्पणे ।
 
३. ज. का. जाता ।
 
४. ज. हरमसुरमुमा ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy