This page has not been fully proofread.

पाण्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
[ १३७
 
कुं०वृ० - पार्वती वो युष्मान् पवित्रयतु क्व सति रिपुवधे जाते सति, केली
क्रीडानिमित्तं स्मरारी हरे एवं वक्ष्यमाणं वदति सति, इतीति किं, अत्र स्थाणु-
शङ्करहरमहादेवा इति इमाश्चतस्रः स्वीयाः संज्ञाः स्वात्मनि प्रयथार्था मन्यमानः
पराचरणे तासां च वृत्तिनिवृत्तिमाह, हे भद्रे ! विश्वकल्याणकारिणि ! नत्र
स्थाणुशब्देन तव प्रङ घिरेव, न ग्रहं तथा, यतो रणात्पलाय्य गतः, अयं तु स्थास्तु-
र्भूत्वा क्षतमहिषरगव्याजकण्डुतिः, क्षता महिषस्य रणव्याजकण्डूति: खज्जू ल
भुजत्वं येन; अनुच, त्रैलोक्यक्षेमदाता इति कृत्वा शङ्करोऽप्ययमेव, शं सुखं करो-
तीति, श्रहं तु न शङ्करः, प्रत्युत मां पलायमानं दृष्ट्वा लोकाः पलायिता इति
भयहेतुरपि ; प्रतुच, भुवनभयहर इति कृत्वा हरोऽप्ययमेव, नाहं, रिपुहरण-
लक्षणहर शब्दार्थाभावादित्यभिप्राय: ; अनु च, एष ग्रहं महादेवोऽपि स (न) किन्तु
त्वच्चरण एव महादेवः, महाँइचासो दीव्यतीति कृत्वा (महा) देवः, अयं तु देवानां
नायकत्वात् गुणकृतवचनः, गौरणेयं संज्ञा महादेव इति, न मुख्येत्यर्थः, अतस्तु
प्रधानत्वात् त्वच्चरणस्यैव इमा: संज्ञाः, निरर्थकत्वात् न मम, इति भावेन पति-
परीहासतुष्टा भवानी वः पायात्, इति वाक्यस्यार्थः ॥ ८८॥
 
सं०व्या० - ८८ भद्रे स्थाणुरिति ॥ रिपोर्बंध: रिपुवधस्तस्मिन् रिपुवधे
महिषहते एवमित्थं केली केलिनिमित्तं स्मरारी कामशत्रो वति जल्पति सति
पार्वती पर्वतपुत्री वो युष्मान् पुनातु पवित्रीकरोतु, स्थाणुः शङ्करो महादेवो
हरश्चेति चतस्रो मम संज्ञाश्च साम्प्रतमयथार्था इत्यभिप्रायेण परिहासमधिकृत्य
शम्भुरिदमाह, भद्रे ! स्थाणुस्त वेत्यादि, अत्र नो इति प्रतिषेधवचन एव शब्दः, च
रणस्य व्याजो रणव्याजः, कण्डूयनं कण्डूतिः, रणव्याजेन कण्डूतिः रणव्याजकण्डूतिः,
कृता महिषरणव्याजकण्डूतिर्येन स तथोक्तः ; भद्रे कल्याणि ! तवैष अंह्निः स्थाणुः,
छलपक्षेषु ढः, कथं क्षतमहिषरणव्याजकण्डूति: महिषरणव्याजेन या कण्डूतिः सा
स्थाणुना न हता किन्तु तवाङ घ्रिणा हतेत्यर्थः, क्षेमं शिवं क्षेमस्य दानं क्षेमदानं
त्रैलोक्यस्य क्षेमदानं त्रैलोक्यक्षेमदानं तस्मात् तथोक्तः, अत एव तव एष अंहि-
रेव शङ्करः सुखकरः शब्दमात्रेणैव शङ्करः सर्वत्रानुगत एष इत्यनेन स्मरारेराला-
पनं निर्दिशति; हरतीति हरः 'कृतः पचादित्वादच्' हरोऽपि नो भुवनभयहरः
तवाङ घिरेव भुवनभयहरः, हरस्तु शब्दमात्रेणैव; देवानां नायकत्वात् प्रधानत्वात्
गुणकृतवचनोऽपि तव चरण एष महादेवः किन्तु शब्दमात्रेणैव महादेव एव, गुणानां
कृतं वचनं अभिधानं येनेति विग्रहः अनेनैतदुक्तं भवति, महिषवधेनार्थप्रधा-
नत्वात् एताः स्थाण्वादयः संज्ञास्तवाङ घ्रियुंज्यन्ते, वयं निरर्थकनामान
इति ॥८८॥
 
-
 
तु
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy