This page has not been fully proofread.

.
 
T
 
१३६ ]
 
महाकविवाण-विरचितं चण्डीशतकम् [ पद्याङ्क ८७ व्याख्या
 
हननसामर्थ्य इति द्योत्यते, किंविशिष्टा देवी, ईदृक् महिषवधलक्षणं कर्म्म
श्रुत्वा भावात् अनुरागात् दूरात् आगत्य शम्भुनाऽऽश्लिष्टा श्रालिङ्गिता, कथं एत्य,
अनिभृत उल्वणो रभसो यत्र तद्यथा भवति, रभस उत्कर्षः, पुनः कथं यथा भवति,
बाहुं भुजं उपसू[41a ]त्य भुजोपपीड[न]मित्यर्थः, अत एव देवी विशिष्यते, श्वसित-
भरचलत्तारकोळू तहस्ता व्वसितस्य श्वासस्य पीडनात् यो भरः प्राचुर्यं तेन चलन्ती
[चलन्त्यो] तारके यस्याः सा तथा, अत एव उद्भूतौ हस्ती यया सा श्वसितभर-
चलत्तारका चासौ उद्धृतहस्ता च श्वतिभरचलत्तारकोद्धूतहस्ता ॥८७॥
 
संतापिता प्ररय: शत्रवो देवा येन स
 
सं० व्या० - ८७. श्रुत्वैतत्कर्मेति ॥
संता: भुवनानां सुखं मुष्णातीति भुवनसुखमुद् तस्मिन् संतापितारी तथा
भुवनसुखमुषि दैत्ये प्रेतकाष्ठां याम्यां दिशं प्रेषिते प्रहिते सति गौरी वो युष्मान्
श्रव्यात् रक्षतु, किंविशिष्टा, रिलष्टा आलिङ्गिता स्थाणुना शङ्करेण दूराद्द व्यभिमुख
प्रभ्येत्य आगत्य, कथमभ्येत्य अनिभृतर [भ] सं अनिभृति निभृतिरहितो उल्वणो
रसः स उत्कर्षो यस्मिन् अभ्यागमने तद् यथा भवत्येवं, कुतोऽनिभृतिरसं भावाद-
नुरागात्, किं कृत्वा श्रुत्वैतत् इदं देव्या महिषवधलक्षरणं कर्म कर्माण्याकर्ण्य, किकृत्वा
श्लिष्टा, बाहूपसादं बाहू भुजौ उपसद्य उपसृत्य बाहूपपीडनमित्यर्थः, अत एव श्व-
सितभरचलत्तारका धूतहस्तेति देवी, श्वसितस्य श्वासस्य पीडनाद्भर : प्राचुर्यं तेन
चलन्त्यो तारके यस्याः सा तथोक्ता, धूतौ हस्ती ययेति विग्रहः, किंकुर्वती गौरी
शङ्करेण श्लिष्टा, तं शङ्करं त्रिदिविषु देवुषु मिलत्सु सत्सु अलमत्यर्थं लज्जया
व्रीडया वारयन्ती प्रतिषेधयन्ती मैवं कुविति व्याहरन्तीति भावः ॥८७॥
 
.
 
भद्र' स्थाणुस्तवाङ्घ्रिः क्षतम हिषरणव्याजकण्डू
तिरेष
स्त्रैलोक्यक्षेमदाता भुवनभयहरः शङ्करोऽतो हरोऽपि ।
 

 

 
देवानां नायकत्वाद्गुणकृतवचनो' नो महादेव एष
 
केलावेवं स्मरारौ वदति रिपुवधे पार्श्वती वः पुनातु ॥८८॥
 
१. ज० का० ०रेष; का० ० रेवेति टिप्पणे ।
 
२. ज० त्रं लोक्यक्षेमदानाद्भ वनभयहरः ।
 
३. का० देवानां नायिके ! त्वद्गुणकृतवचनो; ज० देवेंद्र ह्मादिभिस्त्वद्गुरणकृतवचनो ।
 
४. ज० एव ।
 
५. ज० का० स्मरारिहंसति ।
 
६. ज० का० यां शिवा पातु सा वः ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy