This page has not been fully proofread.

१३४ ]
 
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क ६५ व्याख्या
 
मदो रतिमदः तेन विलसन् यः स्त्रीणां कटाक्षः तस्य क्षमा, स्त्रीकटाक्षमेव सोढुं
शक्नोति न शृङ्गयुग्मं, अत्र पर्वतशृङ्गभ्रान्त्या शृङ्गयुगं नारोहरणीयमिति
वाच्योऽर्थः, अतोऽत्र मुग्धपदेन भ्रान्तिमदलङ्कारता ध्वन्यते; अन्यच्च, हे भानो !
अत्राहं पादन्यासं करोमीति किं तव जीवितेन, हि यस्मात् त्वं क्षितिमहिषतनौ
प्राकृतमहिषशरीरे आरोपितपाद:, पादशब्देन कराश्चरणी च कथ्येते; अहं तु तादृशो
महिषो न भवामि यत्र त्वं पादन्यासं करोषि सम्यक् न्यस्ताः स्थापिता: पादा
रश्मयो येन पादश्चरण इति शब्दच्छलं त्यक्तचरणस्त्वमिति हास्यार्थः ॥८५॥
 
सं०व्या ०-८५. मैनामिन्दोऽभिनैषीरिति । विगता असव: प्राणा यस्य स व्यसुः,
विगतप्राणमसुरं महिषरूपिणं कुर्वती उमा गौरी वो युष्मान् त्रायतां रक्षतु,
असुरमेवमित्थं दपत् दर्पेण हसन्तं चन्द्रादित्यी, कथं तदुच्यते, मैनामिन्दो इति,
हे इन्दो चन्द्र ! स्वां तनुं निजं शरीरं मा शृङ्गयुग्मस्य पात्र्यं पात्रभावमभिनैषीः
अभिमुखं नय, श्रितमाश्रितं पृथु विस्तीर्ण शिखरं पर्वतशृङ्ग यया तां तनु तथोक्तां,
अनेनंतदुक्तं भवति पर्वतशृङ्गं विपुलं तु चन्द्रो यथा तथा श्रयते, इयं तु शृङ्ग-
युग्मं अस्मदीयं तीक्ष्णं, भवता प्राश्रयितुं शक्यं श्रत एवंविधा भवतस्तनुरियं
रतिमदविलसत्स्त्री कटाक्षक्षमेति रतेर्मदेन या विलसन्ती अभिसारिका स्त्री तस्याः
कंटाक्षो ह्रस्वतिर्यक्प्रेक्षितं यत् तस्याः क्षमा सहा इति; भानो ! भास्कर !
वीक्षितेन अवलोकितेन क्षितौ महिषस्तस्य तनुः क्षितिमहिषतनुस्तस्मिन् हि यस्मात्
त्वं सन्यस्तपादः, अहं तु तादृशो महिषो न भवामि यत्र पादन्यासं करोषीति भावः,
सम्यक् न्यस्ताः स्थापिताः पादा रश्मयो यस्येति विग्रहः, छलपक्षे तु, पादश्चरण
इति, हास्यपक्षे तु, सन्यस्तपादस्त्यक्ताङ्घ्रिः कुष्ठीत्यर्थः ॥८५॥
 
1
 
T,
 
सङ्ग्रामात्त्रस्तमेतं' त्यज निजमहिषं लोकजीवेश मृत्यो !
स्थातु शस्त्राग्रभूमौ गतभयमजयं मत्तमेनं गृहाण ।
दैत्ये पादेन यस्याश्छलमहिषतनौ प्रापिते दीर्घनिद्रां
द्राग् दुर्भेदे' जयैवं हसितपितृपतिः' सा शिवा' वः पुनातु ॥८६॥
 
१. ज० संग्रामात्त्रस्त मेनं ।
२. ज० का० शूलाग्रभूमौ ।
३. का० मत्तमेतं ।
 
४. ज० का० शायिते ।
 
५. ज० का० भावोत्पत्ती ।
 
६. ज० का० हसति पितृपति ।
७. ज० का० साऽम्बिका ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy