Proofing

✦

This page has been fully proofread once and needs a second look.

पद्या ८४-८५ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत वृत्तिसमेत म्
 
[ १३३
 
क्षोभभाज:जः, मन्दरेण क्षोभस्तमिव भजन्ते, यथा मन्दरेण क्षोभं नीताः तथा पुन-

रपि तेन नीता इत्यर्थः; पुन:नः किंविशिष्टान् पुनरपि हेतुगर्भभं विशेषगणमाह, भ्राम्य-

द्भीमोरुदेहक्षुभित चलजलव्यस्तवीचीसकम्पान्, भ्राम्यन् योऽसीसौ भीमो रौद्र उरुर्वि

शालो देहः तेन क्षुभितं यत् चलं चञ्चलं जलं तेन व्यस्ता या वीचयः ताभिः सह

कम्पेन वर्तमानान् कृत्वेत्यर्थः ॥८४॥
 

 
सं० व्या० - --८४. भ्राम्यदिति ॥ दैत्यानां नाथो दैत्यनाथस्तं पिपिंषती चूर्णयन्ती अद्रेः

पर्वतस्य कन्या कुमारी वो युष्मान् पातु रक्षतु, किंविशिष्टं चरणभरनतं चरण-

भरेण नतं, किं कुर्वन्तं एवमित्थं दर्षात् दर्पेणायान्तमागच्छन्तं, श्रवणं श्रुतिस्तस्याः

पदं स्थानं श्रुतिपदं श्रवणेन्द्रियं तस्य परुषो निष्ठुरः तं श्रुतिपदपरुषं नावंदं शब्द-

मुद्गिरन्तं प्रअतीवोत्सृजन्तं, किकिं कृत्वाऽयान्तं, सह कम्पेन वर्तन्त इति सकम्पास्तान्

जलधीन् कृत्वेवं कृत्वा, प्राआशु क्षिप्रं, किंविशिष्टान् जलधीन् भ्राम्यद्धामौर्वदेहक्षुभित-

चलजलचरव्यस्तवीचीन्, ऊर्वो बाडवाग्निः, धाम तेजः भ्राम्यद्धाम तेजो यस्य स

भ्राम्यद्धामा स चासोसौ ऊर्व्वश्च भ्राम्यद्धामौर्वस्तस्य दाहस्तापस्तेन चलिता क्षुभिता

ये जलचरा मत्स्यादयस्तैर्व्यस्तस्य इतस्ततः क्षिप्ता वीचयस्तरङ्गा येषां जलनिधीनां

ते तान् यथोक्तान्, पुनरपि किकिंविशिष्टान् कृत्वा प्रसन्नान् अनाविलान्, पुनरपि

भूयोऽपि मन्दरक्षोभभाजः कृत्वेदमुक्तं भवति, यथापूर्वं मन्दराद्रिणा जलधयः

क्षोभभाजः कृतास्तथेदानीं महिषेणापि इति ॥८४ ॥
 
3
 

 
मैनामिन्दो'[^१]ऽभिनैषीः श्रितपृथुशिखरां शृङ्ग[40b]युग्मस्य पात्र्यं
[^२]
युद्धक्ष्मायां तनु'नुं स्वां रतिमद विलसत्स्त्री कटाक्षक्षमेयम् ।

भानो ! किं वीक्षितेन क्षितिमहिषतनौ त्वं हि सन्यस्तपादो
[^३]
दर्पादेवं[^४] हसन्तं व्यसुमसुरमुमा कुर्व्वती त्रायतां वः ॥ ८५॥

 
कुं० व० - --उमा वस्त्रायतां, किकिं कुर्वती असुरं दैत्यं व्यसुं विगतप्राणं कुर्वती,

किंविशिष्टटं, दर्प्पाद् गर्वादेव वक्ष्यमारणं हसन्तं, एवमिति किं तदाह, हे इन्दो !

एनां स्वां तनुं युद्धक्ष्मायां सङ्ग्रामभूमौ शृङ्गयुग्मस्य पात्र्यं मदीयशृङ्गयुगलपात्रतां

मा अभिनैषीः मा प्रापय, किंविशशिष्टां श्रिततं पृथुशिखरां श्रितं पृथु विशालं पर्वत-

शिखरं यया सा तथा तां, यत इयं ते तनुः रतिमदविलसत्स्त्री कटाक्षक्षमा, रत्यर्थं
 

 
--------------------------------
[^
१.] का० मंमैनां मुग्धे., इति टिप्परणे ।
 

[^
२.] का० पार्श्वं ।
 

[^
३.] सन्यस्तपादौ इति प्रतीतौ ।
 

[^
४.] पर्दादेवं, इति प्रतौ ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy