This page has been fully proofread once and needs a second look.

पद्याङ्क ८२-८३ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
[ १३१
 
तीति भावः;
श्र
थ यः पूर्व्वं स्वतनुकरं स्वशरीरदण्डं दन्तव्याजेन प्रदात् स कथं

युद्धयोगमिष्य [40a] तीत्यभिप्रायः, यतः सोऽपि शान्तः स (श ) मं प्राप्तः, इति दृप्तं

जल्पन्तं दानवं निघ्नती वः पायादिति वाक्यार्थः ॥८२॥
 

 
सं० व्या० - --८२. बालोऽद्यापीशजन्मेति । महिषस्य तनुर्महितनुस्तां

बिभर्ति इति भृतः क्विप्, महिषतनुभृतं दानवं दनुजं वाम<error>पर्ष्याण्या</error><fix> पार्ष्ण्या</fix> निघ्नती निपात-

यन्ती शैलपुत्री पार्वती वो युष्मान् पायात् रक्षतु, किंविशिष्टं महिषं, इत्येवं

संस्फुरोक्त, संस्फुरं स्फुरणयुक्तं उक्तमभिहितमिति विग्रहः, मुदिततनुमुदं दृष्टमव-

लोकितं, मुदितासीसौ तनुश्च मुदिततनुः रोमाञ्चितशरीरं तत्र मुत् हर्षो यस्य स

मुदिततनुमुत् तं मुदिततनुमुदं हिरन्तश्च हर्षमित्यर्थः; कथं संस्फुरोक्तं तदाह,

बालोऽद्यापीशजन्मा इत्यादि, ईशाज्जन्म यस्य स ईशजन्मा कुमारः, समरसुरपतिः

समरसुराणां प्रभुः अद्यापि बालो डिम्भः, अत एव पांगुशुलीलाभियोग्यः इति

विशेषितवाचं, पांगुशुना लीला तस्या अभियोग्यो धूलिक्रोरीडायोग्य इत्यर्थः; नागास्ये-

वास्यं यस्य स नागास्यो विनायक:कः शातदन्तः शातो दन्तः यस्येति विग्रहः, ननु कृशं

करोतीति तनुकरः अतनुकर:रः स चासोसौ मदश्च अतनुकरमदः तस्माद् विह्वलो

विवशः, अतः सोऽपि शान्तः शमं गतः, न केवलमस्य दन्त इति, धिग् यासि क्वेति,

क्व गच्छसि त्वां धिक्, पुत्रबालभावादस्मद्वशे पतितासीति भावः ॥२॥
 
:
 

 
मूर्द्नःसि शूलं ममैतद् विफलम भिमुखं शङ्करोत्खातशूलं

सङ्ग्रामाद्दूरमेतद्धृ तमरि'[^१] हरिणा मन्मनः कर्षतीव ।

गर्वादेवं क्षिपन्तं विबुधजनविभू'[^२] दैत्यसेनाधिनाथं
 

शर्वाणी पातु युष्मान् पदभरदलनात्प्राणतो दूरयन्ती ॥ ८३
 

 
कुं० वृ० - --शर्वाणी शर्वदयिता युष्मान् पायात्, इन्द्रवरुणेत्यादिनाऽऽनुगि शर्वा-

णीति रूपं, किकिं कुर्वती दैत्यसेनाधिनाथं प्राणतः प्राणेभ्यो दूरयन्ती दूरीकुर्वती,

दूरयन्तीत्यत्र स्थूलदूरेत्यादिना यणादिलोपो नाशङ्कनीयः कालिदासादिमहाकवि-

प्रयोगदर्शनात्, कस्मात् पदभरदलानात्, पदस्य भरः पदभरः तेन दलनात्, दैत्यनाथ-

मित्येव सिद्धे सेनाग्रहणं ससेनस्य विनाशनादुद्युक्तं, किकिं कुर्व्वन्तं गर्वात् अहङ्कारात्

बिबुधजनविभू शङ्करनारायणौ एवं क्षिपन्तं निन्दन्तं, विबुधजनविभू इत्येव कृच्,

तद्भयाद् विबुधानां भुवि जनवद् भ्रमणात् विबुधजनविभू इत्युक्तं, एवमिति कि
 
?
 
किं
 
----------------------------
[^
.] का० दूरमस्मत्स्थितंभतमरि, इति टिप्पणे ।
 

[^
.] का० विबुधजनविभून् ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy