This page has not been fully proofread.

पद्याङ्क ८२-८३ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
[ १३१
 
तीति भावः;
श्रथ यः पूर्व्वं स्वतनुकरं स्वशरीरदण्डं दन्तव्याजेन प्रदात् स कथं
युद्धयोगमिष्य [40a] तीत्यभिप्रायः, यतः सोऽपि शान्तः स (श ) मं प्राप्तः, इति दृप्तं
जल्पन्तं दानवं निघ्नती वः पायादिति वाक्यार्थः ॥८२॥
 
सं०व्या० - ८२. बालोऽद्यापीशजन्मेति । महिषस्य तनुर्महिपतनुस्तां
बिभति इति भृतः क्विप्, महिषतनुभृतं दानवं दनुजं वामपर्ष्या निघ्नती निपात-
यन्ती शैलपुत्री पार्वती वो युष्मान् पायात् रक्षतु, किंविशिष्टं महिषं, इत्येवं
संस्फुरोक्त, संस्फुरं स्फुरणयुक्त उक्तमभिहितमिति विग्रहः, मुदिततनुमुदं दृष्टमव-
लोकितं, मुदितासी तनुश्च मुदिततनुः रोमाञ्चितशरीरं तत्र मुत् हर्षो यस्य स
मुदिततनुमुत् तं मुदिततनुमुदं वहिरन्तश्च हर्षमित्यर्थः; कथं संस्फुरोक्त तदाह,
बालोऽद्यापीशजन्मा इत्यादि, ईशाज्जन्म यस्य स ईशजन्मा कुमारः, समरसुरपतिः
समरसुराणां प्रभुः अद्यापि बालो डिम्भः, अत एव पांगुलीलाभियोग्यः इति
विशेषितवाचं, पांगुना लीला तस्या अभियोग्यो धूलिक्रोडायोग्य इत्यर्थः; नागास्ये-
वास्यं यस्य स नागास्यो विनायक: शातदन्तः शातो दन्तः यस्येति विग्रहः, ननु कृशं
करोतीति तनुकरः अतनुकर: स चासो मदश्च अतनुकरमदः तस्माद् विह्वलो
विवशः, अतः सोऽपि शान्तः शमं गतः, न केवलमस्य दन्त इति, धिग् यासि क्वेति,
क्व गच्छसि त्वां धिक्, पुत्रबालभावादस्मद्वशे पतितासीति भावः ॥५२॥
 
:
 
मूर्द्धनः शूलं ममैतद् विफलम भिमुखं शङ्करोत्खातशूलं
सङ्ग्रामाद्दूरमेतद्धृ तमरि' हरिणा मन्मनः कर्षतीव ।
गर्वादेवं क्षिपन्तं विबुधजनविभू' दैत्यसेनाधिनाथं
 
शर्वाणी पातु युष्मान् पदभरदलनात्प्राणतो दूरयन्ती ॥ ८३ ॥
 
कुं०वृ० - शर्वाणी शर्वदयिता युष्मान् पायात्, इन्द्रवरुणेत्यादिनाऽऽनुगि शर्वा-
णीति रूपं, कि कुर्वती दैत्यसेनाधिनाथं प्राणतः प्राणेभ्यो दूरयन्ती दूरीकुर्वती,
दूरयन्तीत्यत्र स्थूलदूरेत्यादिना यणादिलोपो नाशङ्कनीयः कालिदासादिमहाकवि-
प्रयोगदर्शनात्, कस्मात् पदभरदलानात्, पदस्य भरः पदभरः तेन दलनात्, दैत्यनाथ-
मित्येव सिद्धे सेनाग्रहणं ससेनस्य विनाशनादुद्युक्तं, कि कुर्व्वन्तं गर्वात् अहङ्कारात्
बिबुधजनविभू शङ्करनारायणौ एवं क्षिपन्तं निन्दन्तं, विबुधजनविभू इत्येव कृच्,
तद्भयाद् विबुधानां भुवि जनवद् भ्रमणात् विबुधजनविभू इत्युक्त एवमिति कि
 
?
 
१. का० दूरमस्मत्स्थितंभरि, इति टिप्पणे ।
 
२. का० विबुधजनविभून् ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy