This page has been fully proofread once and needs a second look.

किलात्यादि, कर एव कमलं करकमलं तस्य भावः करकमलता तया हेतौ
भूतया, केशपाशं कचनिकरं, मुग्धे ! एवमित्थं किल मुहुः पुनर्मासीर्मा गृहीस्त्व-
मासीरिति, असुगतिदीप्त्यादानेष्टीत्यतो माडिल् यदिति लुट्, यः केशपाशो रतादौ
सुरतारम्भे प्रिये वल्लभे कोपलब्धे कोपप्राप्ते कलहः समुचितो विग्रहयोग्यः
सोऽन्यस्त्रीणां अपरयोषितां अस्मदीयानां तु न तु परस्त्रिया इति भावः ॥८१
 
बालोऽद्यापीशजन्मा समरमुडुपभृत्[^१] भस्मलीलाविलासी[^२]
नागास्यः शातदन्तः स्वतनुकरमदाद्विह्वलः सोऽपि शान्तः ।
धिग्यासि क्वेति दृप्तं[^३] मृदिततनुमदं[^४] दानवं संस्फुरोक्तं[^५]
पायाद् वः शैलपुत्री महिषतनुभृतं निघ्नती वामपार्ष्ण्या ॥८२॥
 
कुं० वृ०--शैलपुत्री पर्व्वतेन्द्रतनया वो युष्मान् पायात्, किं कुर्वती महिषं महिष-
तनुभृतं दानवं निघ्नती, महिषतनु बिभर्तीति क्विवबन्तः, गजादिरूपपरित्यागात्
पुनर्महिषतामापन्नमित्यर्थः, कया वामपार्ष्ण्या मायावित्वात् कूटयोधिनस्तस्योपरि
अवज्ञया वामनदाघातस्येवोचितत्वात्, किंविशिष्टं दानवं दृप्तं सगर्वं, पुनः किं-
विशिष्टं मृदिततनुमदं मृदितस्तनोर्मदो यस्य स तथा तं, पुनः किंविशिष्टं, हे देवि
त्वां धिक्, क्व यासि क्व यास्यसि इति संस्फुरोक्तं स्फुरणं स्फुरः सस्फुरं उक्तं
वचो यस्य स तथा तं, किं तद्वचनं तदाह, स्त्रियः खलु पतिपुत्रबलं भवति, ननु
तत्तव नास्ति, कुतः यत ईशजन्मा कार्तिकेयोऽद्यापि समरं प्रति बाल (अ)समर्थ(:)
पुत्रो बालश्च सङ्ग्रामानभिज्ञो भवति, तर्हि पतिर्भविष्यतीत्याशङ्क्याह, उडुपभृत्
चन्द्रशेखरो भस्मलीलाविलासी, भस्मना लीला तया विलासी शीतलसेवनं भस्म-
लेपश्च तस्य सरुक्त्वं रोगसहितत्वं व्यञ्जयतः; तर्हि गणेशोऽस्तीत्याशङ्क्याह,
नागास्यो गजाननः शातदन्तः नागस्येवाननं यस्य स तथा, शातो भग्नो दन्तो यस्येति,
महिषेण किल धनुर्विधातुं तस्य दन्तस्य गृहीतत्वात्, 'शो तनूकरणे' क्त-प्रत्यये, अदन्त
इति; अनु च, स्वतनुकरमदाद्विह्वलोऽपि, स्वं तनुं कृशं करोति इति स्वतनुकरश्चासौ
मदश्च तस्मात् अवशिष्टदन्तग्रहणभीत्या विह्वलत्वाच्च न तवालम्बनं भवितुमर्ह-
 
--------------------------------
[^१] ज० का० टि० सुरपतिर्भस्मलीलाविलासी ।
[^२] का० पांशुलीलाविलासी; पांशुलीलाभियोग्यो ।
[^३] ज० दृष्टं; का० दुष्टं ।
[^४] ज० मुदिततनुमदं ।
[^५] का० संस्फुटोक्तमिति टिप्पणे ।