2023-03-31 06:42:35 by manu_css
This page has been fully proofread once and needs a second look.
एवं मुग्धे किलासीः करकमलरुचा[^१] मा मुहुः केशपाशं
सोऽन्यस्त्रीणां रतादौ कलहसमुचितो यः प्रिये दोषलब्धे[^२] ।
वैदग्ध्यादेवमन्तःकलुषितवचनं दुष्टदेवारिनाथं
देवी वः पातु पार्ष्ण्या दृढतनुमसुभिर्मोचयन्ती भवानी ॥८१॥
कुं० वृ०--देवी भवानी वो युष्मान् पातु, किं कुर्व्वती दुष्टदेवारिनाथं
देवारीणां नाथो देवारिनाथः, दुष्टश्चासौ देवारिनाथश्च दुष्टेदेवारिनाथस्तं
असुभिः प्राणैर्मोचयन्ती मरणं प्रापयन्ती, कया पार्ष्ण्या पादपाश्चात्यभागेन,
किं[39b]विशिष्टं तं, दृढा तनुर्यस्य स तं, दृढा स्थूला बलिष्ठा वा, पुनः किंविशिष्टं
वैदग्ध्यात् चातुर्यात् एवं वक्ष्यमाणप्रकारेण अन्तःकलुषितवचनं, अन्तर्मध्ये
कलुषितं प्रसन्नगम्भीरं वचनं यस्य स तं, अन्तःकलुषितमिति कोमलपदं कठोरार्थ-
मित्यर्थः, कथमित्येतद्विवृणोति, हे मुग्धे ! मूर्द्धजायुवविशेषविवेकविरहान्मुग्धे-
त्युच्यते, हे विवेकरहिते ! एनं केशपाशं किल मा आसीः मा क्षिप, अथवा असु-
गतिदीप्त्योः मा गृहीः, कथं मुहुर्बारम्बारं, केशो वरुणस्तस्य पाशः अथवा
कचसमूहः तं अन्यासु[यु]धेनान्यस्य युद्धादर्शनात्, अथ त्वं स्त्रीभावमापन्ना स्व-
भर्तृसङ्गमभ्रान्त्या केशपाशं मा गृहीः, इतो मुग्धा इति पदं औचितीं आवहति,
सोऽन्यः अन्य एव यः स्त्रीणां रतादौ प्रिये भर्त्तरि दोषलब्धे सपत्नीनामग्रह<error>द्योष</error>-<fix>दोष</fix>
लब्धे यः कलहसमुचितः कलहयोग्यः, अथवा अन्यस्त्रीणां योग्यः न तव, कया
कृत्वा करकमलरुचा, अत्राऽसमर्थसमासत्वात् करकमलेनेति व्याख्येयं, अथवा कर-
कमलकान्त्यामासीरिति योज्यम्, माङ्योगे लटार्थे लकारः, मा दीप्तिं नय
अयमभिसन्धिः, त्वं कोमलकरा युद्धे पाशग्रहणयोग्या न किन्तु रते केशपाशग्रहण-
योग्येति वाक्यार्थः ॥६८१॥
सं० व्या०--८१. एवमिति ॥ भवस्य पत्नी भवानी वो युष्मान् पातु
रक्षतु, किं कुर्वती असुभिः प्राणैर्मोचयन्ती, पार्ष्ण्या पादपश्चिमभागेन, कं देवाना-
मरयोऽसुरास्तेषां नाथः, दुष्टश्चासौ देवारिनाथस्तं दुष्टदेवारिनाथं महिषं,
किं विशिष्टं दृढतनुं दृढा स्थूला तनुर्यस्येति विग्रहः, पुनः किंभूतं अन्तःकलुषित-
वचनं अन्तर्मध्ये कलुषितं वचनं यस्येति विग्रहः, कुतोऽन्तःकलुषितवचनं
वैदग्ध्यात् विदग्धभावात्, अन्तःकलुषितवचनमेवमित्थं तदुच्यते, हे मुग्धे
-----------------------
[^१] का० करकमलतया ।
[^२] ज० कोपलब्धे ।

योग्येति वाक्यार्थः ॥