This page has been fully proofread once and needs a second look.

सं० व्या०--७९. गाढावष्टम्भेति ॥ भवानी भवपत्नी वो युष्मभ्यं
चिन्तितानि देयात् अभिलषितवस्तूनि ददातु, किंविशिष्टा, द्रुतमहिषवधावाप्तपुष्टिः
महिषस्य वधः महिषवधः द्रुतश्चासौ महिषवधश्च द्रुतमहिषवधस्ततोऽवाप्ता
पुष्टिर्यया सा तथोक्ता, या, पूर्वं कृतविबुधरुट् कृता विबुधानां रुट् येन स कृत-
विबुधरुट् तं कृतविबुधरुषं दैत्यं महिषमारूढा, किं कर्तुकामा हन्तुकामा, कथं
सगर्वा सह गर्वेण वर्त्तत इति सगर्वा, किमवस्था भवानी, शूलपाणिः शूलं पाणौ
यस्याः सा तथोक्ता, किंविशिष्टं महिषरूपिणं दैत्यमारूढा, प्रबलश्चासौ भरश्च
प्रबलभरौ भूरिभर इत्यर्थः, पादस्य प्रबलभरो गाढोऽवष्टम्भोऽवष्टम्भावधिर्यस्य स
गाढावष्टम्भः स चासौ पादप्रबलभरश्च तेन नमत्पूर्वकायोर्ध्वभागो यस्य स
गाढावष्टम्भपादप्रबलभरनमत्पूर्वकायोर्ध्वभागः तं, कमिवारूढा जनमहिषमिव,
निर्ज्ञातशिक्षं निश्चितं ज्ञाता शिक्षा येनेति विग्रहः, यो हि निर्ज्ञातशिक्षः स
आरोहणकाल नमदोद्गमभागो (भवति नमद् उद्गमभागो) यस्येति विग्रहः ॥७९॥
 
ब्रह्मा[^१] योगैकतानो विरहभवभयाद्धूर्जटिः[^२] स्त्रीकृतात्मा[^३]
वक्षः शौरेर्विशालं प्रणयकृतपदा पद्मवासाऽधिशेते ।
युद्धक्ष्मामेवमेते विजहतु[^४] विदिशं द्राक् त्यजत्वेष शक्रो[^४]
दृप्तं[^५] दैत्येन्द्रमेवं सुखयतु समदा निघ्नती पार्व्वती वः ॥८०॥
 
कुं० वृ०--पार्व्वती पर्वततनया वो युष्मान् सुखयतु सुखीकरोतु, किं कुर्व्वती निघ्नती
नितरां हननं कुर्वती, कं निघ्नतो, दैत्येन्द्रं महिषं दैत्यानामधीशं, किंविशिष्टं
दैत्यं दृप्तं सगर्वं, केन प्रकारेण तदाह, एवं अमुना प्रकारेण, समदा सगर्वा कृत-
मधुपाना, मधु पीत्वा तस्य हतत्वात् इति मार्कण्डेयपुराणे, एवमिति किं तदाह, ब्रह्मा
योगैकतानः, योगो नाम यमाद्यष्टाङ्गनियतोऽपि समाधौ योगाङ्गविशेषोऽवतिष्ठते
तानो विस्तारः, एकाग्र्यं वा योगे एकस्तानो यस्य स तथा योगैकचित्तो ब्रह्मा
परिव्राजकत्वात् युद्धे नाधिकृत इति; अन्यच्च, धूर्जटिः महेश्वरः स्त्रीकृतात्मा
 
-----------------------------------
[^१] का० टि० ब्रह्मन् ।
[^२] का० टि० भवविरहभयाद्धूर्जटिः ।
[^३] का० टि० स्वीकृतात्मा ।
[^४-४] का० धिगिमं त्यजत्येष शक्रो; का० टि० विदिशं प्राक् द्राक् त्यजत्येष शक्रो; ज०
धिगिमान् त्यजत्येष शत्रुः ।
[^५] ज० दृष्टं ।