This page has not been fully proofread.

पचाङ्क ७६-८० व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत वृत्तिसमेत म्
 
। १२७
 
संग व्या०-७९. गाढावष्टम्भेति ॥ भवानी भवपत्नी वो युष्मभ्यं
चिन्तितानि देयात् अभिलषितवस्तूनि ददातु, किंविशिष्टा, द्रुतमहिषवधावाप्त पुष्टिः
महिषस्य वधः महिपवधः द्रुतश्चासो महिषवधश्च द्रुतमहिषवधस्ततोऽवाप्ता
पुष्टिर्यया सा तथोवता, या, पूर्व कृतविबुधरुद् कृता विबुधानां रुट् येन स कृत-
विबुधरुट् तं कृतविबुधरुपं दैत्यं महिषमारूढा, कि कर्तुकामा हन्तुकामा, कथं
सगर्वा सह गर्वेण वर्त्तत इति सगर्वा, किमवस्था भवानी, शूलपाणि: शूलं पाणी
यस्याः सा तथोक्ता, किंविशिष्टं महिषरूपिणं दैत्यमाख्ढा, प्रबलवचासी भरश्च
प्रवलभरी भूरिभर इत्यर्थः पादस्य प्रबलभरो गाढोऽवष्टम्भोऽवष्टम्भावधिर्यस्य स
गाढावष्टम्भ: स चासो पादप्रबलभरश्च तेन नमत्पूर्वकायोर्ध्वभागो यस्य स
गाढावष्टम्भपादत्रबलभरनमत्पूर्वकायोर्ध्व भागः तं, कमिवारूढा जनमहिपमिन,
निर्ज्ञातशिक्षं निश्चितं ज्ञाता शिक्षा येनेति विग्रहः, यो हि निर्ज्ञातशिक्षः स
आरोहणकाल नमदोद्गमभागो (भवति नमद् उद्गमभागो) यस्येति विग्रहः ॥७३॥
 
"
 
ब्रह्मा' योगैकतानो विरहभवभयाद्ध र्जटि: स्त्रीकृतात्मा
वक्ष: शौरेर्विशालं प्रणयकृतपदा पद्मवासाऽधिशेते ।
युद्धक्ष्मामेवमेते विजहतु 'विदिशं द्राकू त्यजत्वेष शको
 
दृप्तं " दैत्येन्द्रमेवं सुखयतु समदा निघ्नती पार्व्वती वः ॥८०॥
 
कुं.वृ. -पार्व्वती पर्वततनया वो युष्मान् सुखयतु सुखीकरोतु, किं कुर्व्वती निघ्नती
नितरां हननं कुर्वती, कं निघ्नतो, दैत्येन्द्रं महिषं दैत्यानामधीशं, किंविशिष्टं
दैत्यं दृप्तं सगर्व, केन प्रकारेण तदाह, एवं नमुना प्रकारेण, समदा सगर्वा कृत-
मधुपाना, मधु पीत्वा तस्य हतत्वात् इति मार्कण्डेयपुराणे, एवमिति किं तदाह, ब्रह्मा
योगेकतानः, योगो नाम यमाद्यष्टाङ्गनियतोऽपि समाधौ योगाङ्गविशेषोऽवतिष्ठते
तानो विस्तारः, एकाग्रचं वा योगे एकस्तानो यस्य स तथा योगैकचित्तो ब्रह्मा
परिव्राजकत्वात् युद्धे नाधिकृत इति; अन्यच्च, धूर्जटि: महेश्वरः स्त्रीकृतात्मा
 
3
 
१. का. टि. ब्रह्मन् ।
 
२. का. टि. भवविरहभयावजंटि: ।
 
३. का. टि. स्वीकृतात्मा ।
 
४-४. का. विगिमं यस्त्यजत्येष शक्रो; का. टि. विदिशं द्राक् त्यजत्येष शको; ज.
धिगिमान् त्यजत्येष शत्रुः ।
 
५. ज. दृष्ट ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy