This page has been fully proofread once and needs a second look.

कृतप्रायं प्रयोगस्तदा किञ्चिदित्यवधार्य, कीदृशं प्रतिविहितरयं प्रतिविहितो रयः
यस्य तत् तथोक्तं; पुनरपि तदेव वक्तुं बहुशो विशिनष्टि, ज्वालाधाराकरालं
ज्वालाश्च धाराश्च ज्वालाधारास्ताभिः करालं, स्वनितेन कृतं भयं येन तत्
तथोक्तं, दृढाश्रीः दृढाः श्रियो यस्येति विग्रहः, दैत्यमायाविलावि दैत्यानां माया
दैत्यमाया तां विलावितुं शीलमस्येति दैत्यमायाविलावीति ताच्छील्ये णिनिः,
अयमर्थः ज्वालाधाराकरालमित्यादिविशेषविशिष्टमपि वैष्णवं चक्रं प्रति-
विहितरयस्त्वात् यत्र महिषे किञ्चित् कर्तुं न शक्तमिति ॥७८॥
 
गाढावष्टम्भपादप्रबल[^१] भरनमत्पूर्व्वकायार्द्धभागं
दैत्यं निर्ज्ञातशिक्षं[^२] जनमहिषमिव न्यक्कृताग्र्याङ्गभागम्[^३] ।
आरूढा शूलपाणिः कृतविबुधभयं[^४] हन्तुकामा[^५] सगर्व्वं[^६]
देयाद्वश्चिन्तितानि द्रुतमहिषवधावाप्ततुष्टिर्भवानी[^७] ॥७६॥
 
कु.कुं० वृ.--भवानी भवपत्नी वो युष्मभ्यं चिन्तितानि वाञ्छितानि देयात्,
किंविशिष्टा, द्रुतं शीघ्रं महिषवधेन अवाप्ता प्राप्ता तुष्टिः सन्तोषो यया सा
तथोक्ता, किंभूता, महिषं दैत्यमारूढा किमवस्था सती, शूलपाणिः शूलं पाणौ यस्याः
सा, किंभूता, हन्तुकामा हन्तुं कामयते इति हन्तुकामा, हन्तुं काममनसोरपीति
म-लोपः, किंभूतं दैत्यं, सगर्व्वं; अन्यच्च, कृतविबुधभयं कृतं विबुधानां भयं येन
सतं, किंभूतं, कायस्य अर्द्धभागः कायार्द्धभागः पूर्वश्चासौ कायार्द्धभागश्च पूर्व-
कायार्द्धभागः, गाढोऽवष्टम्भोऽवष्टम्भावधिर्यस्य स चासौ पादश्च तस्य प्रबलः बहुर्यो
भरः तेन नमन्पूर्वकायार्द्धभागो यस्य स तं, कथम्भूतं तं, निर्ज्ञातशिक्षं निश्चितं
ज्ञाता शिक्षा येन स तथा तं, यो हि निर्ज्ञातशिक्षो(39a) भवति स आरोहणकाले
नमितपूर्वकायाऽर्द्धभागो भवत्येव अत एव न्यक्कृताग्र्याङ्गभागमिति न्यक्कृतो-
ऽग्र्योऽग्रिमोऽग्र्याङ्गभागो यस्य स तं, कमिवारूढा जनमहिषमिव प्राकृतमहिषमिव
आरोहणकाले पादपातेन साम्यमापाद्य प्राकृतमहिषेण विशेषितवान्; उपमाऽलङ्कारः ॥७६॥
 
------------------------------
[^१] का.टि. प्रचुर ।
[^२] का. संजातशिक्षं ।
[^३] का.टि. प्राकृताग्र्याङ्गभागम् ।
[^४] ज. कृतविबुधरुषं ।
[^५] का. हन्तुकामं ।
[^६] ज. सगर्वा ।
[^७] ज. ०पुष्टिर्भवानी ।