We're performing server updates until 1 November. Learn more.

This page has been fully proofread once and needs a second look.

कापालमाला तां ब्रह्मणा च सहायोन्यस्य परस्परस्यासङ्गमालिङ्गनं अन्योन्या-
सङ्गस्तेन गाढो दृढः स चासौ व्यतिकरश्चान्योन्यासङ्गगाढनिमीलनं तेन दलित-
पूर्वां पश्चात् (भ्रष्टाम्) ॥७७॥
 
ज्वालाधाराकरालं ध्वनितकृतभयं[^१] यत्र कर्त्तुं न शक्तं[^२]
चक्रं विष्णोर्दृढास्थि[^३] प्रतिविहितरयं[^४] दैत्यमायाविलावि[^५] ।
क्षुण्णस्तस्याऽस्थिसारो विबुधरिपुविभोः[^६] पादपातेन यस्या
रुद्राणी पातु सा वः प्रशमितसकलोपद्रवा[^७] निर्विघातम् ॥७८॥
 
कुं. वृ.--सा रुद्राणी रुद्रभार्या वः पातु किंभूता, प्रशमितः सकल उपद्रवो यया
सा तथा, निर्विघातं निर्विघ्नं यथा भवति तथा, सा का, यस्याः पादपातेन तस्य
विबुधरिपुविभोर्महिषस्य अस्थिसारः क्षुण्णः पिष्टः, अस्थीन्येव सारः, अथवा अस्थनः
सारो मध्यं यत्र, विबुधरिपुविभोः विष्णोश्चक्रं कर्त्तुं छेत्तुं न शक्तः न प्रभुः,
कथंभूतं चक्रं, ज्वालाभिर्विशिष्टा धाराः ताभिः करालं; अन्यच्च ध्वनितेन कृतं
भयं येन तत्; अन्यच्च, दृढाः समर्थाः अस्थयो यत्र तत्; पुनः किंभूतं, प्रतिविहितो
निराकृतो रयो यस्य तत्; पुनः किंभूतं, दैत्यमायाविलावि दैत्यानां मायां
विलुनातीत्येवं शीलम् ॥७८॥
 
सं० व्या० - --७८. ज्वालेति ॥ रुद्राणी रुद्रपत्नी वो युष्मान् पातु रक्षतु,
किंविशिष्टा, प्रशमितसकलोपप्लवा, उपप्लव उध्वान्तः, प्रशमितः सकलोपप्लवो
यया सा तथोक्ता, निर्विघातं निर्विघ्नं यथा भवत्येवं, प्रशमित इति क्रिया-
विशेषणं; यस्याः पादपातेन तस्य विबुधरिपुविभोर्महिषस्यास्थिसारः प्राणो जीवः
क्षुण्णः पिष्टसार इति स्थितोऽथ उच्यते, तस्यास्थिशब्देन कर्मधारयः यथा खदिर-
सार इति; विबुधा देवास्तेषां रिपवोऽसुरा विबुधरिपूणां विभुविबुधरिपुविभुः यत्र
विबुधरिपुविभोर्विष्णोश्चक्रं कर्त्तुं छेत्तुं न शक्तमत्र कृते विशेषश्चिन्त्यः, अथ
 
---------------------------------
[^१] का.टि. स्वनितकृतभयं ।
[^२] का. यं प्रभेत्तुं न शक्तं ।
[^३] ज. दृढाश्रि; का, ०दृढास्रि ।
[^४] का.टि. सृति विहितरयं; प्रतिविहतरयं ।
[^५] का. दैत्यमालाविनाशि ।
[^६] का. विबुधरिपुपतेः ।
[^७] ज. का. प्रशमितसकलोपप्लवा ।