This page has been fully proofread once and needs a second look.

पद्याङ्क ७७-७८ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
[ १२५
 
कापालमाला तां ब्रह्मणा च सहायोन्यस्य परस्परस्यासङ्गमालिङ्गनं अन्योन्या-

सङ्गस्तेन गाढो दृढः स चासौ व्यतिकरश्चान्योन्यासङ्गगाढनिमीलनं तेन दलित-

पूर्वीवां पश्चात् (भ्रष्टाम्) ७७॥
 

 
ज्वालाधाराकरालं ध्वनितकृतभयं[^१] यत्र कर्त्तुं न शक्
 
तं[^२]
चक्रं विष्णोर्दृढास्थि[^३] प्रतिविहितरयं[^४] दैत्यमायाविलावि'[^५]

क्षुण्णस्तस्याऽस्थिसारो विबुधरिपुविभोः[^६] पादपातेन यस्था
 
या
रुद्राणी पातु सा वः प्रशमितसकलोपद्रवा[^७] निर्विघातम् ॥७८॥
 

 
कुं. वृ. - --सा रुद्राणी रुद्रभार्या वः पातु किंभूता, प्रशमितः सकल उपद्रवो यया

सा तथा, निर्विघातं निर्विघ्नं यथा भवति तथा, सा का, यस्याः पादपातेन तस्य

विबुधरिपुविभोर्महिषस्य अस्थिसार :रः क्षुण्ण:णः पिष्टः, ग्रस्थीन्येव सारः, अथवा अस्थन:
नः
सारो मध्यं यत्र, विबुधरिपुविभोः विष्णोश्चक्रं कत्तुर्त्तुं छेत्तुं न शक्तः न प्रभुः,

कथंभूतं चक्रं, ज्वालाभिर्विशिष्टा घाधाराः ताभिः करालं; अन्यच्च ध्वनितेन कृतं

भयं येन तत्; अन्यच्च, दृढा:ढाः समर्थाः अस्थयो यत्र तत्; पुनः किंभूतं, प्रतिविहितो

निराकृतो रयो यस्य तत्; पुनः किंभूतं, दैत्यमायाविलावि दैत्यानां मायां

विलुनातीत्येवं शीलम् ॥७८॥
 

 
१. का.टि. स्वनितकृतभयं ।
 
२. का. यं प्रभेत्तुं न शक्त ।
 
३. ज. दृढाश्रि; का, ०दृढात्रि ।
 
४. का.टि. सृति विहितरयं; प्रतिविहतरयं ।
 
५. का. दैत्यमालाविनाशि ।
 

 
सं० व्या० - ७८. ज्वालेति ॥ रुद्राणी रुद्रपत्नी वो युष्मान् पातु रक्षतु,
कि

किं
विशिष्टा, प्रशमितसकलोपप्लवा, उपप्लव उध्वान्तः, प्रशमितः सकलोपप्लवो

यया सा तथोक्ता, निर्विघातं निर्विघ्नं यथा भवत्येवं, प्रशमित इति क्रिया-

विशेषणं; यस्याः पादपातेन तस्य विबुधरिपुविभोर्महिषस्यास्थिसार:रः प्राणो जीव:
वः
क्षुण्ण:णः पिष्टसार इति स्थितोऽथ उच्यते, तस्यास्थिशब्देन कर्मधारयः यथा खदिर-

सार इति; विबुधा देवास्तेषां रिपवोऽसुरा विबुधरिपूणां विभुविबुधरिपुविभुः यत्र

विबुधरिपुविभोविश्र्विष्णोश्चक्रं कत्तुर्त्तुं छेत्तुं न शक्तमत्र कृते विशेषश्चिन्त्यः, प्र
 

 
---------------------------------
[^१] का.टि. स्वनितकृतभयं ।
[^२] का. यं प्रभेत्तुं न शक्तं ।
[^३] ज. दृढाश्रि; का, ०दृढास्रि ।
[^४] का.टि. सृति विहितरयं; प्रतिविहतरयं ।
[^५] का. दैत्यमालाविनाशि ।
[^६]
का. विबुधरिपुपतेः ।
 

[^
.] ज. का. प्रशमितसकलोपप्लवा ।
 
T
 
"
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy