This page has not been fully proofread.

पद्याङ्क ७७-७८ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
[ १२५
 
कापालमाला तां ब्रह्मरणा च सहायोन्यस्य परस्परस्यासङ्गमालिङ्गनं अन्योन्या-
सङ्गस्तेन गाढो दृढः स चासौ व्यतिकरश्चान्योन्यासङ्गगाढनिमीलनं तेन दलित-
पूर्वी पश्चात् (भ्रष्टाम्) ।७७॥
 
ज्वालाधाराकरालं ध्वनितकृतभयं यत्र कर्त्तुं न शक्त
 
चक्र विष्णोदृढास्थि प्रतिविहितरयं दैत्यमायाविलावि' ।
क्षुण्णस्तस्याऽस्थिसारो विबुधरिपुविभोः पादपातेन यस्था
 
रुद्राणी पातु सा वः प्रशमितसकलोपद्रवा निर्विघातम् ॥७८॥
 
कुं. वृ. - सा रुद्राणी रुद्रभार्या वः पातु किंभूता, प्रशमितः सकल उपद्रवो यया
सा तथा, निर्विघातं निर्विघ्नं यथा भवति तथा, सा का, यस्याः पादपातेन तस्य
विबुधरिपुविभोर्महिषस्य अस्थिसार : क्षुण्ण: पिष्टः, ग्रस्थीन्येव सारः, अथवा अस्थन:
सारो मध्यं यत्र, विबुधरिपुविभोः विष्णोश्चक्रं कत्तु छेत्तुं न शक्तः न प्रभुः,
कथंभूतं चक्रं, ज्वालाभिविशिष्टा घाराः ताभिः करालं; अन्यच्च ध्वनितेन कृतं
भयं येन तत्; अन्यच्च, दृढा: समर्थाः अस्थयो यत्र तत्; पुनः किंभूतं, प्रतिविहितो
निराकृतो रयो यस्य तत्; पुनः किंभूतं, दैत्यमायाविलावि दैत्यानां मायां
विलुनातीत्येवं शीलम् ॥७८॥
 

 
१. का.टि. स्वनितकृतभयं ।
 
२. का. यं प्रभेत्तुं न शक्त ।
 
३. ज. दृढाश्रि; का, ०दृढात्रि ।
 
४. का.टि. सृति विहितरयं; प्रतिविहतरयं ।
 
५. का. दैत्यमालाविनाशि ।
 
सं० व्या० - ७८. ज्वालेति ॥ रुद्राणी रुद्रपत्नी वो युष्मान् पातु रक्षतु,
किविशिष्टा, प्रशमितसकलोपलवा, उपप्लव उध्वान्तः, प्रशमितः सकलोपप्लवो
यया सा तथोक्ता, निर्विघातं निर्विघ्नं यथा भवत्येवं, प्रशमित इति क्रिया-
विशेषणं; यस्याः पादपातेन तस्य विबुधरिपुविभोर्महिषस्यास्थिसार: प्राणो जीव:
क्षुण्ण: पिष्टसार इति स्थितोऽथ उच्यते, तस्यास्थिशब्देन कर्मधारयः यथा खदिर-
सार इति; विबुधा देवास्तेषां रिपवोऽसुरा विबुधरिपूणां विभुविबुधरिपुविभुः यत्र
विबुधरिपुविभोविश्णोश्चक्रं कत्तु छेत्तुं न शक्तमत्र कृते विशेषश्चिन्त्यः, प्रथ
 
का. विबुधरिपुपतेः ।
 
७. ज. का. प्रशमितसकलोपप्लवा ।
 
T
 
"
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy