This page has been fully proofread once and needs a second look.

भद्रे भ्रूचापमेतच्छमय मम रुषा[^१] विस्फुरन्नेत्रबाणं
नाहं केलौ रहस्ये प्रतियुवतिकृताऽऽख्यातिदोषः पिनाकी ।
देवी सोत्प्रासमेवं धृतमहिषतनुं[^२] दृप्तमन्तःसकोपं[^३]
देवारिं पातु युष्मानतिपरुषपदा निघ्नती भद्रकाली ॥७६॥
 
कुं. वृ.--भद्रकाली युष्मान् पातु, किं कुर्व्वती, देवारिं निघ्नती, किंभूतं धृतमहिषतनुं,
पुनः किं विशिष्टं दृप्तं गर्विष्ठं; अन्यच्च, अन्तः सकोपं अभ्यन्तरसक्रोधं, किंविशिष्टा
देवी प्रतिपरुषपदा अतीकठोरपदा, किविशिष्टं महिषं, एवं देवीसोत्प्रासं देव्यां
सोत्प्रासं सोपहासं, एवमिति किं, हे भद्रे ! एतद्भ्रूचापं शमय शान्तिं नय, कथं-
भूतं भ्रूचापं, मम मत्सम्बन्धिन्या रुषा कोपेन विस्फुरन्नेत्रमेव बाणो यस्मिन् तत्,
यतोऽहं पिनाकी न, किंभूतः पिनाकी रहस्ये केलौ एकान्ते क्रीडायां प्रतियुवति-
कृताख्यातिदोषः, प्रतियुवतेः कृता या आख्यातिः आख्यानं नामग्रहणं स एव
दोषो यत्र स तथोक्तः ॥७६॥
 
सं० व्या०--७६. भद्रे भ्रूचापमिति ॥ महिषस्य तनुर्महिषतनुर्धृता येन
स तथोक्तः तं धृतमहिषतनुं सुरारातिं निघ्नती व्यापादयन्ती भद्रकाली वो
युष्मान् पातु रक्षतु, किंभूता अतिपरुष(पदा) अतीवपरुषं निष्ठुरं पदं यस्याः सा
तथोक्ता, किंविशिष्टं सुरारातिं, एवमित्थं सोत्प्रासं सोपहासं दृप्तं दर्प्पिष्ठं अतः
सकोपं अभ्यन्तरे सक्रोधं, कथं सोत्प्रासमिति तदुच्यते, भद्रे ! भ्रूचापमित्यादि,
भ्रूरेव चापं नेत्रमेव बाणं, भद्रे कल्याणि ! उपशमय उपसंहर बाणं, नाहं पिनाकी
शङ्करः, कीदृशो यः प्रतियुवतिकृताख्यातिदोषः, प्रतियुवतेः कृता ख्यातिः कीर्तिः
सैव दोषो यस्य स प्रतियुवतिकृताख्यातिदोषः कृतगोत्रस्खलन इत्यर्थः, क्त्र रहस्ये
केलौ एकान्ते, भावे भाव: परिहासस्तस्मात् भ्रूचापमिदं शमयेति संबन्धः ॥७६॥
 
अन्योन्याऽऽसङ्गगाढव्यतिकरदलितभ्रष्टकापालमालां[‍^४]
स्वां भोः संत्यज्य[^५] शम्भोः[^६] खुरपुटदलितप्रोल्लसद्धूलिपाण्डुः ।
भद्रे ! क्रोडाभिमर्द्दी[^७] तव सविधमहं कामतः प्राप्त ईशो-
ऽत्रैवं सोत्प्रासमव्यान्महिषसुररिपुं निघ्नती पार्व्वती वः ॥७७॥
 
--------------------------
[^१] का० भ्रूचापमेतन्नमयसि नु वृथा; शमयसि तु रुषा, शमय मम चेति पाठान्तरद्वयमपि
सूचितम् । ज० शमयसि तु रुषा ।
[^२] का. टिप्पणे, महिषितवपुषं ।
[^३] ज. सकोपात् ।
[^] का. टि. ०कापालमालं ।
[^५] का० टि० स्वाङ्गं विन्यस्य ।
[^
६] का. टि. स्वाङ्ग विन्यस्य० शम्भौ
[^७] का. शम्भी ।
[^८] का.
क्रीडाभिमर्दी ।