This page has not been fully proofread.

पद्याङ्क ७६ व्याख्या ]
 
मेदपाटेश्वर कुम्भकर्णकृत-वृत्तिसमेतम्
 
भद्रभ्र चापमेतच्छमय मम रुषा' विस्फुरन्न क्षेत्रवाणं
नाहं केलौ रहस्ये प्रतियुवतिकृताऽऽख्यातिदोषः पिनाकी ।
 
3
 
देवी सोत्प्रासमेवं धृतमहिषतनु" दृप्तमन्तःसको पं
 
देवारिं पातु युष्मानतिपरुषपदा निघ्नती भद्रकाली ॥७६॥
 
[ १२३
 
कुं. वृ. - भद्रकाली युष्मान् पातु, किं कुर्व्वती, देवारि निघ्नती, किंभूतं घृतमहिषततुं,
पुनः किं विशिष्टं दृप्तं गर्विष्ठं; अन्यच्च, अन्तः सकोपं अभ्यन्तरसक्रोधं, किंविशिष्टा
देवी प्रतिपरुषपदा तोकठोरपदा, किविशिष्टं महिषं, एवं देवीसोत्प्रासं देव्यां
सोत्प्रासं सोपहासं, एवमिति कि, हे भद्रे ! एतदद्भ्र चापं शमय शान्ति नय, कथं-
भूतं भ्रूचापं, मम मत्सम्वन्धिन्या रुषा कोपेन विस्फुरन्नेत्रमेव बाणो यस्मिन् तत्,
यतोऽहं पिनाकी न, किंभूतः पिनाकी रहस्ये केलौ एकान्ते क्रीडायां प्रतियुवति-
कृताख्यातिदोषः, प्रतियुवतेः कृता या श्राख्याति: प्राख्यानं नामग्रहणं स एव
दोषो यत्र स तथोक्तः ॥७६॥
 
सं० व्या० - ७६. भद्रे भ्रूचापमिति ॥ महिषस्य तनुर्महिषतनुर्वृता येन
स तथोक्तः तं धतृमहिषतनुं सुराराति निघ्नती व्यापादयन्ती भद्रकाली वो
युष्मान् पातु रक्षतु, किंभूता प्रतिपरुष (पदा) अतीवपरुषं निष्ठुरं पदं यस्याः सा
तथोक्ता, किंविशिष्टं सुराराति, एवमित्थं सोत्प्रासं सोपहासं हप्तं दप्पिष्ठं अतः
सकोपं अभ्यन्तरे सक्रोधं, कथं सोत्प्रासमिति तदुच्यते, भद्रे ! भ्रूचापमित्यादि,
भ्रूव चापं नेत्रमेव बाणं, भद्रे कल्याणि ! उपशमय उपसंहर बाणं, नाहं पिनाकी
शङ्करः कीदृशो यः प्रतियुवतिकृता ख्यातिदोषः, प्रतियुवतेः कृता ख्यातिः कीतिः
सैव दोषो यस्य स प्रतियुवतिकृताख्यातिदोषः कृतगोत्रस्खलन इत्यर्थः, क्त्र रहस्ये
केली एकान्ते, भावे भाव: परिहासस्तस्मात् भ्रूचापमिदं शमयेति संबन्धः ॥७६॥
अन्योन्याऽऽसङ्गगाढव्यतिकर दलितभ्रष्टकापालमालां
 
8
 
स्वां भोः संत्यज्य' शम्भोः' खुरपुटदलितप्रोल्लसद्ध लिपाण्डुः ।
भद्र' ! क्रोडाभिम' तव सविधमहं कामतः प्राप्त ईशो-
ऽत्रैवं सोत्प्रासमव्यान्महिषसुररिपुं निघ्नती पार्व्वती वः ॥७७॥
 
१. का. भ्रूचापमेतन्नमयसि नु वृथा; शमयसि तु रुषा, शमय मम चंति पाठान्तरद्वयमपि
सूचितम् । ज. शमयसि तु रुषा । २. का. टिप्पणे, महिषितवपुषं ।
 
३. ज. सकोपात् । ४. का. टि. ०कापालमालं । ५. का. टि. स्वाङ्ग विन्यस्य ।
 
६. का. शम्भी ।
 
७. का. क्रीडाभिमर्दी ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy