2023-03-31 06:30:31 by manu_css
This page has been fully proofread once and needs a second look.
गङ्गासम्पर्क्कदुष्यत्कमलवनसमुद्भूतधूलीविचित्रो[^१]
वाञ्छासम्पूर्णभावादधिकतररसं तूर्ण्णमायान् समीपम् ।
क्षिप्तः पादेन दूरं वृषग इव यया वामपादाभिलाषी
देवारिः कैतवाऽऽविष्कृतमहिषवपुः साऽवतादम्बिका वः ॥७५॥
कुं.० वृ.०--सा अम्बि(का) जगदम्बिका वो युष्मान् अवतात्, सा का, यया देवारि-
र्देववैरी पादेन दूरं क्षिप्तः, के इव वृषग इव हर इव, किंभूतो देवारिः कैतवेन
आविष्कृतं प्रकटीकृतं महिषवपुर्येन स तथा, कथं यथा भवति, अधिकतररसं
यथा भवति तथा, अधिकतरस्वेच्छं यथा भवति, किं कुर्व्वन्, तुर्ण्णं वेगेन समीपं
आयान् सविधमागच्छन्, कस्मात् वाञ्छासम्पूर्णभावात् वाञ्छासम्पूर्णतया;
किंविशिष्टो महिषः, गङ्गासम्पर्केण अवगाहनेन दुष्यत् विकृतिं गच्छत् यत्
कमलवनं तस्मात् समुद्भूतो यो धूलिः परागस्तेन विचित्रः कर्बुरः; हरपक्षे, गङ्गा-
सङ्गविलुलितः कमलवनधूलिधूसरः, इदमेव कोप कारणं; महिषपक्षे, वाञ्छाया
असम्पूर्णभावात् इति योज्यं; किंविशिष्टः महिषः, वामपादाभिलाषी वामश्चासौ
पादः तत्र अभिलाषी च वामपादाभिलाषी पादाकर्षणाभिलाषी, अथवा वामपादात्
मृत्युं अभिलषतीति कृत्वा; ईश्वरपक्षे, प्रसादयितुं वामेन वक्रेण पादाभिलाषी
वामग्रहणं मूर्ध्न उपलक्षणं, स्त्रैणे कर्म्मणि तस्य वक्रस्य प्राधान्यात्, अथवा
स्त्रिया वामपादप्राधान्यात् वामपादाभिलाषीति ॥७५॥
सं.० व्या.०--७५. गङ्गेति ॥ सा अम्बिका गौरी वो युष्मान् अवतात् रक्षतु, यया
देवारिर्दूरं वृषग इव पादेनाङ्घ्रिणा क्षिप्तः प्रेरितः; किंविशिष्टो देवारिः, कैतवा-
विष्कृतमहिषवपुः, कैतवेन शाठ्येन आविष्कृतं प्रकटीकृतं महिषवपुर्येन सः तं
तथोक्तं, किंभूतो हरो महिषश्च, वामपादाभिलाषी वामश्चासौ पादश्च वामपाद-
स्तमभिलषितुं शीलमस्य एवं वामपादाभिलाषी, प्रसादयितुं अपकर्तुं लगितकाम
इत्यर्थः, यो भवो महिषश्च किमकरोत्, तूर्णं क्षिप्रं आदायागतः समीपमन्तिकं कुतो
वाञ्छासंपूर्णभावात् इच्छायाः परिपूर्णत्वात्, कथं आर्या[भावा]धिकतररसं अधिक-
तररसः शृङ्गारादिकोपावेगाद्यथा भवत्येवं, कथंभूतः शम्भुर्महिषश्च आयान्
गङ्गासम्पर्कदुष्यत् कमलवनसमुद्भूतलधूलीविचित्रः, कमलानां वनं कमलवनं कमल-
वनसंपर्केण संयोगेन दुष्यत् विकृतिं गच्छत् संपर्काद्दुष्यत् तच्च तत् कमलवनं
च सम्पर्कदुष्यत्कमलवनं गङ्गायाः सम्पर्कदुष्यत् कमलवनं तेन समुद्भूता
समुत्क्षिप्ता सा चासौ धूली च तया विचित्रः कर्बुरः ॥७५॥
------------------------
[^१] का० समुद्भूतधूलीविचित्रो ।
वाञ्छासम्पूर्णभावादधिकतररसं तूर्ण्णमायान् समीपम् ।
क्षिप्तः पादेन दूरं वृषग इव यया वामपादाभिलाषी
देवारिः कैतवाऽऽविष्कृतमहिषवपुः साऽवतादम्बिका वः ॥७५॥
कुं
र्देववैरी पादेन दूरं क्षिप्तः, के इव वृषग इव हर इव, किंभूतो देवारिः कैतवेन
आविष्कृतं प्रकटीकृतं महिषवपुर्येन स तथा, कथं यथा भवति, अधिकतररसं
यथा भवति तथा, अधिकतरस्वेच्छं यथा भवति, किं कुर्व्वन्, तुर्ण्णं वेगेन समीपं
आयान् सविधमागच्छन्, कस्मात् वाञ्छासम्पूर्णभावात् वाञ्छासम्पूर्णतया;
किंविशिष्टो महिषः, गङ्गासम्पर्केण अवगाहनेन दुष्यत् विकृतिं गच्छत् यत्
कमलवनं तस्मात् समुद्भूतो यो धूलिः परागस्तेन विचित्रः कर्बुरः; हरपक्षे, गङ्गा-
सङ्गविलुलितः कमलवनधूलिधूसरः, इदमेव कोप कारणं; महिषपक्षे, वाञ्छाया
असम्पूर्णभावात् इति योज्यं; किंविशिष्टः महिषः, वामपादाभिलाषी वामश्चासौ
पादः तत्र अभिलाषी च वामपादाभिलाषी पादाकर्षणाभिलाषी, अथवा वामपादात्
मृत्युं अभिलषतीति कृत्वा; ईश्वरपक्षे, प्रसादयितुं वामेन वक्रेण पादाभिलाषी
वामग्रहणं मूर्ध्न उपलक्षणं, स्त्रैणे कर्म्मणि तस्य वक्रस्य प्राधान्यात्, अथवा
स्त्रिया वामपादप्राधान्यात् वामपादाभिलाषीति ॥७५॥
सं