This page has been fully proofread once and needs a second look.

T
 
महाकविनाण-विरचितं चण्डीशतकम्
 
गङ्गासम्पर्क्कदुष्यत्कमलवनसमुद्भूतधूलीविचित्रो'
[^१]
वाञ्छासम्पूर्णभावादधिकतररसं तूर्ण्णमायान् समीपस्म्

क्षिप्तः पादेन दूरं वृषग इव यया वामपादाभिलाषी
 

देवारिः कैतवाssऽऽविष्कृतमहिषवपुः सावतादम्बिका वः ॥७५॥
 
१२२ ]
 
[ पद्याङ्क ७५ व्याख्या
 

 
कुं. वृ. - --सा अम्बि (का) जगदम्बिका वो युष्मान् अवतात्, सा का, यया देवारि-

र्
देववैरी पादेन दूरं क्षिप्तः, के इव वृषग इव हर इव, किंभूतो देवारि:रिः कैतवेन

आविष्कृतं प्रकटीकृतं महिषवपुर्येन स तथा, कथं यथा भवति, अधिकतररसं

यथा भवति तथा, अधिकतरस्वेच्छं यथा भवति, किं कुर्व्वन्, तुर्ण्णं वेगेन समीपं
प्रा

यान् सविधमागच्छन्, कस्मात् वाञ्छासम्पूर्ण भावात् वाञ्छासम्पूर्णतया;
कि

किं
विशिष्टो महिपःषः, गङ्गासम्पर्केण प्रवगाहनेन दुष्यत् विकृतितिं गच्छत् यत्

कमलवनं तस्मात् समुद्भूतो यो धूलिः परागस्तेन विचित्र:रः कर्बु र :रः; ह्रपक्षे, गङ्गा-

सङ्गविलुलित:तः कमलवनधूलिधूसरः, इदमेव कोप कारणं; महिषपक्षे, वाञ्छाया

सम्पूर्णभावात् इति योज्यं; किंविशिष्टः महिषः, वामपादाभिलाषी वामश्चासो
सौ
पादः तत्र अभिलाषी च वामपादाभिलाषी पादाकर्षणाभिलाषी, अथवा वामपादात्

मृत्युं अभिलषतीति कृत्वा; ईश्वरपक्षे, प्रसादयितुं वामेन वक्रेण पादाभिलाषी

वामग्रहणं मूर्ध्न उपलक्षणं, स्त्रैणे कर्म्मणि तस्य वक्रस्य प्राधान्यात्, अथवा

स्त्रिया वामपादप्राधान्यात् वामपादाभिलाषीति ॥७५॥
 

 
सं. व्या.--७५. गङ्गेति ॥ सा अम्बिका गौरी वो युष्मान् श्रवतात् रक्षतु, यया

देवारिदूं र्दूरं वृषग इव पादेनाङ्घ्रिणा क्षिप्तः प्रेरितः; किंविशिष्टो देवारिः, कैतवा-

विष्कृतमहिषवपुः, कैतवेन शाठ्येन आविष्कृतं प्रकटीकृतं महिषवपुर्येन सः तं

तथोक्तं, किंभूतो हरो महिषश्च, वामपादाभिलाषी वामश्चासौ पादश्च वामपाद-

स्तमभिलषितुं शीलमस्य एवं वामपादाभिलाषी, प्रसादयितुं अपकतुर्तुं लगितकाम

इत्यर्थः, यो भवो महिषश्च किमकरोत्, तूर्णं क्षिप्रं प्रादायागतः समीपमन्तिकं, कुतो

वाञ्छा संपूर्णभावात् इच्छाया:याः परिपूर्णत्वात्, कथं आर्या [भावा]धिकतररसं अधिक-

तररसः शृङ्गारादिकोपावेगाद्यथा भवत्येवं, कथंभूतः शम्भुमंर्महिषश्च श्रायान्

गङ्गासम्पर्कदुष्यत् कमलवनसमुद्भूतलधूली विचित्रः, कमलानां वनं कमलवनं कमल-

वनसंपर्केण संयोगेन दुष्यत् विकृतितिं गच्छत् संपर्काद्दुष्यत् तच्च तत् कमलवनं

च सम्पर्कदुष्यत्कमलवनं गङ्गायाः सम्पर्कदुष्यत् कमलवनं तेन समुद्भूता

समुत्क्षिप्ता सा चासौ धूली च तथाया विचित्रः कर्बु रः ॥ ७५
 

 
------------------------
[‍^
.] का. समुद्भूतधूली विचित्रो ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy