This page has not been fully proofread.

T
 
महाकविनाण-विरचितं चण्डीशतकम्
 
गङ्गासम्पर्कदुष्यत्कमलवनसमुद्भूतधूलीविचित्रो'
वाञ्छासम्पूर्णभावादधिकतररसं तूर्णमायान् समीपस् ।
क्षिप्तः पादेन दूरं वृषग इव यया वामपादाभिलाषी
 
देवारिः कैतवाssविष्कृतमहिषवपुः सावतादम्बिका वः ॥७५॥
 
१२२ ]
 
[ पद्याङ्क ७५ व्याख्या
 
कुं. वृ. - सा अम्बि (का) जगदम्बिका वो युष्मान् अवतात्, सा का, यया देवारि-
देववैरी पादेन दूरं क्षिप्तः, के इव वृषग इव हर इव, किंभूतो देवारि: कैतवेन
आविष्कृतं प्रकटीकृतं महिषवपुर्येन स तथा, कथं यथा भवति, अधिकतररसं
यथा भवति तथा, अधिकतरस्वेच्छं यथा भवति, किं कुर्व्वन्, तुणं वेगेन समीपं
प्रायान् सविधमागच्छन्, कस्मात् वाञ्छासम्पूर्ण भावात् वाञ्छासम्पूर्णतया;
किविशिष्टो महिपः, गङ्गासम्पर्केण प्रवगाहनेन दुष्यत् विकृति गच्छत् यत्
कमलवनं तस्मात् समुद्भूतो यो धूलिः परागस्तेन विचित्र: कर्बु र :; ह्रपक्षे, गङ्गा-
सङ्गविलुलित: कमलवनधूलिधूसरः, इदमेव कोप कारणं; महिषपक्षे, वाञ्छाया
सम्पूर्णभावात् इति योज्यं; किंविशिष्टः महिषः, वामपादाभिलाषी वामश्चासो
पादः तत्र अभिलाषी च वामपादाभिलाषी पादाकर्षणाभिलाषी, अथवा वामपादात्
मृत्युं अभिलषतीति कृत्वा; ईश्वरपक्षे, प्रसादयितुं वामेन वक्रेण पादाभिलाषी
वामग्रहणं मूर्ध्न उपलक्षणं, स्त्रैणे कर्म्मणि तस्य वक्रस्य प्राधान्यात्, अथवा
स्त्रिया वामपादप्राधान्यात् वामपादाभिलाषीति ॥७५॥
 
सं. व्या.-७५. गङ्गेति ॥ सा अम्बिका गौरी वो युष्मान् श्रवतात् रक्षतु, यया
देवारिदूं रं वृषग इव पादेनाङ्घ्रिणा क्षिप्तः प्रेरितः; किंविशिष्टो देवारिः, कैतवा-
विष्कृतमहिषवपुः, कैतवेन शाठ्येन आविष्कृतं प्रकटीकृतं महिषवपुर्येन सः तं
तथोक्त, किंभूतो हरो महिषश्च, वामपादाभिलाषी वामश्चासौ पादश्च वामपाद-
स्तमभिलषितुं शीलमस्य एवं वामपादाभिलाषी, प्रसादयितुं अपकतु लगितकाम
इत्यर्थः, यो भवो महिषश्च किमकरोत्, तूर्णं क्षिप्रं प्रादायागतः समीपमन्तिकं, कुतो
वाञ्छा संपूर्णभावात् इच्छाया: परिपूर्णत्वात्, कथं आर्या [भवा]धिकतररसं अधिक-
तररसः शृङ्गारादिकोपावेगाद्यथा भवत्येवं, कथंभूतः शम्भुमंहिषश्च श्रायान्
गङ्गासम्पर्कदुष्यत् कमलवनसमुद्र लधूली विचित्रः, कमलानां वनं कमलवनं कमल-
वनसंपर्केण संयोगेन दुष्यत् विकृति गच्छत् संपर्काददुष्यत् तच्च तत् कमलवनं
च सम्पर्कदुष्यत्कमलवनं गङ्गायाः सम्पर्कदुष्यत् कमलवनं तेन समुद्र ता
समुत्क्षिप्ता सा चासौ धूली च तथा विचित्रः कर्बु रः ॥ ७५ ॥
 
१. का. समुद्भूतधूली विचित्रो ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy