This page has been fully proofread once and needs a second look.

यथा पाषाणे निपतितं चक्रं रथाङ्गं चक्रायुधस्य हरेः क्वणति शब्दायते रोमाणि
नाच्छिनत्तीत्यभिप्रायः, स्थाणोः शङ्करस्य बाणश्च लेभे लब्धवान् प्रतिघातं यस्य
चर्मणा अजिनेन तत्, उरुणा विस्तीर्णेन चर्मणेव संनाहेनेव यथा वर्मणा बाणाः
प्रतिहन्यन्ते न यथास्य चर्मणापीत्यर्थ: ॥७३॥
 
कृत्वा वक्त्रेन्दुबिम्बं चलदल कलसद्भ्र लताचापभङ्गं
क्षोभव्यालोलता' स्फुरदरुणरुचिस्फारपर्यन्तचक्षुः ।
सन्ध्यासेवापराधं भवमिव पुरतो वामपादाम्बुजेन
क्षिप्रं दैत्यं क्षिपन्ती महिषितवपुषं पार्व्वती वः पुनातु ॥७४॥
 
कुं. वृ.--पार्व्वती वः पुनातु पवित्रीकरोतु, किं कुर्व्वती, पादाम्बुजेन पुरतोऽग्रतः
दैत्यं क्षिपन्ती, कथंभूतं महिषितवपुषं, कमिव भवमिव, किंभूतं भवं, सन्ध्यासेवा-
पराधं सन्ध्यासेवैव अपराधो यस्य स तं, यथा सापराधं भवं पादाम्बुजेन क्षिपति,
किं कृत्वा, वक्त्रेन्दुबिम्बं एवंविधं कृत्वा, एवंविधं किमित्याह, किंविशिष्टां चल-
दलकलसत् चलदलकैः सकाशात्, पुनः किंभूतं, भ्रूरेव लता सैव चापं भ्रूलता-
चापं तस्य भङ्गो यत्र तत्; अन्यच्च, क्षोभेण महिषव्यतिकरेण व्यालोले चञ्चले
तारे कनीनिके यत्र तत्; अन्यच्च, स्फुरन्ती अरुणा आरक्ता रुचिर्यस्य तत्,
किंविशिष्टं, स्फारपर्यन्ते चक्षुषी यत्र (38a) तत्, भव क्षिपन्ती अपि वक्त्रेन्दुबिम्बं
ईर्ष्यया एवंविधं करोति, इन्दोरपि एतद्धर्मसादृश्यादुपमानम् ॥७४॥
 
सं. व्या.--७४. कृत्वेति ॥ पार्वती पर्वतपुत्री वः युष्मान् पुनातु पवित्रीकरोतु,
किं कुर्वती महिषितं वपुर्येन स महिषितवपुस्तं दैत्यं दितिजं क्षिप्रं शीघ्रं क्षिपन्ती
प्रेरयन्ती, पुरतो अग्रतः, केन वामपादाम्बुजेन वामश्चासौ पादश्च वामपादः वामपाद
एव अम्बुजं वामपादाम्बुजं तेन, कमिव यथा भवं शङ्करं वामचरणकमलेन क्षिप-
न्त्येवं महिषं क्षिपन्ती, किंविशिष्टं भवं संध्यासेवापराद्धं, सन्ध्यायाः सेवा सन्ध्या-
सेवा तयाऽपराद्धं कृतापराधं, वक्त्रमेव इन्दुबिम्बं, भ्रूलते एव चापे भ्रूलताचापे
तयोर्भङ्गो भ्रूलताचापभङ्गः, चलदलकेषु लसद् भ्रूलताचापभङ्गो यत्र तच्चलदल-
कलसद्भ्रूलताचापभङ्गं वक्त्रेन्दुबिम्बं वदनचन्द्रमण्डलं कृत्वा विधाय क्षिपन्ती;
पुनरपि किंविशिष्टं क्षोभव्यालोलतारस्फुरदरुणरुचिस्फारपर्यन्तचक्षुः, क्षोभेण
व्यालोले चञ्चले तारके यत्र तत् तथोक्तं, स्फुरिता अरुणा आरक्ता रुचिः कान्तिर्य-
योश्चक्षुषोस्ताभ्यां स्फुरदरुणरुचिनी स्फारपर्यन्ते चक्षुषी यस्येति विग्रहः ॥७४॥
 
-------------------------
[^१] का० कोपाद्व्यालोलतारमिति पादटिप्पणे ।
[^२] ज० का० सन्ध्यासेवापारार्द्ध ।