This page has been fully proofread once and needs a second look.

पद्याङ्क ७३-७४ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
[ १२१
 
यथा पाषाणे निपतितं चक्रं रथाङ्गं चक्रायुधस्य हरेः क्वणति शब्दायते रोमाणि

नाच्छिनत्तीत्यभिप्रायः, स्थाणोः शङ्करस्य बाणश्च लेभे लब्धवान् प्रतिघातं यस्य

चर्मणा अजिनेन तत्, उरुणा विस्तीर्णेन चर्मणेव संनाहेनेव यथा वर्मणा बाणा:
णाः
प्रतिहन्यन्ते न यथास्य चर्मणापीत्यर्थ: ॥ ७३
 
w
 

 
कृत्वा वक्त्रेन्दुबिम्बं चलदल कलसद्भ्र लताचापभङ्गं

क्षोभव्यालोलता' स्फुरदरुणरुचिस्फारपर्यन्तचक्षुः ।

सन्ध्यासेवापराधं भवमिव पुरतो वामपादाम्बुजेन

क्षिप्रं दैत्यं क्षिपन्ती महिषितवपुषं पार्व्वती वः पुनातु ॥७४॥
 

 
कं

 
कुं
. वृ.- - -पार्व्वती वः पुनातु पवित्रीकरोतु, किं कुर्व्वती, पादाम्बुजेन पुरतोऽग्रतः

दैत्यं क्षिपत्न्ती, कथंभूतं महिषितवपुषं, कमिव भवमिव, किंभूतं भवं, सन्ध्यासेवा-

पराधं सन्ध्यासेवँवैव अपराधो यस्य स तं, यथा सापराधं भवं पादाम्बुजेन क्षिपति,
कि

किं
कृत्वा, वक्त्रेन्दुबिम्बं एवंविधं कृत्वा, एवंविधं किमित्याह, किकिंविशिष्टां चल-

दलकलसत् चलदलकैः सकाशात्, पुनः किंभूतं, भ्रुरूरेव लता सैव चापं भ्रूलता-

चापं तस्य भङ्गो यत्र तत्; अन्यच्च, क्षोभेण महिषव्यतिकरेण व्यालोले चञ्चले

तारे कनीनिके यत्र तत्; अन्यच्च, स्फुरन्ती अरुणा राआरक्ता रुचिर्यस्य तत्,

किंविशिष्टं, स्फारपर्यन्ते चक्षुषी यत्र (38a) तत्, भव क्षिपन्ती अपि वक्त्रेन्दुबिग्वं
म्बं
ईर्ष्यया एवंविधं करोति, इन्दोरपि एतद्धमंर्मसादृश्यादुपमानम् ॥७४॥
 

 
सं. व्या.--७४. कृत्वेति ॥ पार्वती पर्वतपुत्री वः युष्मान् पुनातु पवित्रीकरोतु,
कि

किं
कुर्वती महिषितं वपुर्येन स महिषितवपुस्तं दैत्यं दितिजं क्षिप्रं शीघ्रं क्षिपन्ती

प्रेरयन्ती, पुरतो अग्रतः, केन वामपादाम्बुजेन वामश्चासौ पादश्च वामपादः वामपाद

एव अम्बुजं वामपादाम्बुजं तेन, कमिव यथा भवं शङ्करं वामचरणकमलेन क्षिप-

न्त्येवं महिषं क्षिपन्ती, किंविशिष्टं भवं संध्यासेवापराद्धं, सन्ध्यायाः सेवा सन्ध्या-

सेवा तयाऽपराद्धं कृतापराधं, वक्त्रमेव इन्दुबिम्बं, भ्रूलते एव चापे भ्रूलताचापे

तयोर्भङ्गो भूभ्रूलताचापभङ्गः, चलदलकेषु लसद् भूभ्रूलताचापभङ्गो यत्र तच्चलदल-

कलसद्भ्रूलताचापभङ्गं वक्त्रेन्दुबिम्बं वदनचन्द्रमण्डलं कृत्वा विधाय क्षिपन्ती;

पुनरपि किंविशिष्टं क्षोभव्यालोलतारस्फुरदरुणरुचिस्फारपर्यन्तचक्षुः, क्षोभेण

व्यालोले चञ्चले तारके यत्र तत् तथोक्तं, स्फुरिता अरुणा प्रारकाआरक्ता रुचिः कान्तिर्य-

योश्चक्षुषोस्ताभ्यां स्फुरदरुणरुचिनी स्फारपर्यन्ते चक्षुषी यस्येति विग्रहः ॥ ७४
 
.
 

 
-------------------------
[^
.] का. कोपाद्व्यालोलतारमिति पादटिप्पणे ।
[^
.]. का. सन्ध्यासेवापारार्द्धं
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy