This page has not been fully proofread.

पद्याङ्क ७३-७४ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
[ १२१
 
यथा पाषाणे निपतितं चक्रं रथाङ्गं चक्रायुधस्य हरेः क्वणति शब्दायते रोमाणि
नाच्छिनत्तीत्यभिप्रायः, स्थाणोः शङ्करस्य बाणश्च लेभे लब्धवान् प्रतिघातं यस्य
चर्मणा अजिनेन तत्, उरुणा विस्तीर्णेन चर्मणेव संनाहेनेव यथा वर्मणा बाणा:
प्रतिहन्यन्ते न यथास्य चर्मणापीत्यर्थ: ॥ ७३ ॥
 
w
 
कृत्वा वक्त्रेन्दुबिम्बं चलदल कलसद्भ्र लताचापभङ्गं
क्षोभव्यालोलता' स्फुरदरुणरुचिस्फारपर्यन्तचक्षुः ।
सन्ध्यासेवापराधं भवमिव पुरतो वामपादाम्बुजेन
क्षिप्रं दैत्यं क्षिपन्ती महिषितवपुषं पार्व्वती वः पुनातु ॥७४॥
 

 
कं.व.- - पार्व्वती वः पुनातु पवित्रीकरोतु, किं कुर्व्वती, पादाम्बुजेन पुरतोऽग्रतः
दैत्यं क्षिपत्ती, कथंभूतं महिषितवपुषं, कमिव भवमिव, किंभूतं भवं, सन्ध्यासेवा-
पराधं सन्ध्यासेवँव अपराधो यस्य स तं, यथा सापराधं भवं पादाम्बुजेन क्षिपति,
कि कृत्वा, वक्त्रेन्दुबिम्बं एवंविधं कृत्वा, एवंविधं किमित्याह, किविशिष्टां चल-
दलकलसत् चलदलकैः सकाशात्, पुनः किंभूतं, भ्रुरेव लता सैव चापं भ्रूलता-
चापं तस्य भङ्गो यत्र तत्; अन्यच्च, क्षोभेण महिषव्यतिकरेण व्यालोले चञ्चले
तारे कनीनिके यत्र तत्; अन्यच्च, स्फुरन्ती अरुणा रा रुचिर्यस्य तत्,
किंविशिष्टं, स्फारपर्यन्ते चक्षुषी यत्र (38a) तत्, भव क्षिपन्ती अपि वक्त्रेन्दुबिग्वं
ईर्ष्यया एवंविधं करोति, इन्दोरपि एतद्धमंसादृश्यादुपमानम् ॥७४॥
 
सं. व्या.-७४. कृत्वेति ॥ पार्वती पर्वतपुत्री वः युष्मान् पुनातु पवित्रीकरोतु,
कि कुर्वती महिषितं वपुर्येन स महिषितवपुस्तं दैत्यं दितिजं क्षिप्रं शीघ्रं क्षिपन्ती
प्रेरयन्ती, पुरतो अग्रतः, केन वामपादाम्बुजेन वामश्चासौ पादश्च वामपादः वामपाद
एव अम्बुजं वामपादाम्बुजं तेन, कमिव यथा भवं शङ्करं वामचरणकमलेन क्षिप-
न्त्येवं महिषं क्षिपन्ती, किंविशिष्टं भवं संध्यासेवापराद्धं, सन्ध्यायाः सेवा सन्ध्या-
सेवा तयाऽपराद्धं कृतापराधं, वक्त्रमेव इन्दुबिम्बं, भ्रूलते एव चापे भ्रूलताचापे
तयोर्भङ्गो भूलताचापभङ्गः, चलदलकेषु लसद् भूलताचापभङ्गो यत्र तच्चलदल-
कलसद्भ्रूलताचापभङ्गं वक्त्रेन्दुबिम्बं वदनचन्द्रमण्डलं कृत्वा विधाय क्षिपन्ती;
पुनरपि किंविशिष्टं क्षोभव्यालोलतारस्फुरदरुणरुचिस्फारपर्यन्तचक्षुः, क्षोभेण
व्यालोले चञ्चले तारके यत्र तत् तथोक्तं, स्फुरिता अरुणा प्रारका रुचिः कान्तिर्य-
योश्चक्षुषोस्ताभ्यां स्फुरदरुणरुचिनी स्फारपर्यन्ते चक्षुषी यस्येति विग्रहः ॥ ७४ ॥
 
.
 
१. का. कोपाव्यालोलतारमिति पादटिप्पणे । २. ज. का. सन्ध्यासेवापाराद्धं ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy