This page has not been fully proofread.

T
 
१२० ]
 
महाकविबाण विरचितं चण्डीशतकम् [ पद्याङ्क ७२-७३ व्याख्या
 
णामीलनं तत्र व्यायाम प्रयासस्तेन रम्यं रमणीयं, कथं रमणीयमित्यभिप्रायेण बहुशो
विशिनष्टि, बाह्योत्क्षेपसमुच्छवसत्कुचतटप्रान्तस्फुटत्कञ्चुकं बहिर्भावो बाह्यउत्क्षेप
ऊर्ध्वप्रेरणं बाह्यश्चासावुत्क्षेपश्च बाह्योत्क्षेपस्तेन समुच्छ वसन् उल्लसन् स
चासो कुचतटश्च [त]स्य प्रान्तः पर्यन्तस्तेन स्फुटन् कञ्चुको यस्मिन् वपुषि तत्
तथोक्तं, उदरं च नाभिमण्डलं च उदरनाभिमण्डलं गम्भीरं च तत् उदरनाभि-
भण्डलं च गम्भीरोदरनाभिमण्डलं तेन गलन्ती लसन्ती सा चासौ काञ्ची घ तया
धृतं श्रद्धं अंशुकं यस्मिन् वपुषि तत् गम्भीरोदरनाभिमण्डलगलत्काञ्चीघृतार्धा-
शुकं, पर्यस्तावधिबन्धबन्धुरलसत्केशोच्चयं, पर्यस्तो अवधिर्येन सः पर्यस्तावधिस्त्यक्त-
मयद: स चासौ बन्धश्च पर्यस्तावधिबन्धस्तेन बन्धुरः ईशदानतो लसत्त् ध्वंसमानः
केशोच्चयः केशपाशो यस्मिन् वपुषि तत् तथोक्तम् ॥ ७२ ॥
 
चक्र' चक्रायुधस्य क्वरणति निपतितं रोमणि ग्रावणीव'
 
स्थागोर्बाणश्च लेभे प्रतिहतिमुरुणा चर्म्मणा वर्म्मणेव ।
यस्येति क्रोधगर्भं हसितहरिहरा तस्य गीर्वाणशत्रोः
 
पायात्पादॆन मृत्यु महिषतनुभृतः कुर्वती' पार्व्वती वः ॥७३॥
 
कुं. वृ. - पार्वती वः पायात्, किं कुर्व्वती तस्य गीर्वाणशत्रोः पादेन मृत्यु कुर्व्वती,
कथं क्रोधगर्भं यथा भवति तथा, कथंभूता हसितहरिहरा हसितौ विडम्बितौ
हरिहरी यया, तस्य कस्य चक्रायुधस्य चक्रं यस्य रोमणि पतितं सत् क्वणति
क्वणत् नवणत् इति शब्दं करोति, कस्मिन्निव, ग्रावणि पतितं सत् इव, अवकाशं
न लभते, च पुनः स्थाणोर्बाणः शरः यस्य चर्मणा प्रतिहति लेभे प्रतिघातं प्राप,
केनेव चर्मणेव, किंविशिष्टेन चर्म्मणा, उरुणा विशालेन, किंविशिष्टस्य दैत्यस्य
महिषितवपुषः ॥७३॥
 
201
 
सं.व्या.-७३. चक्रं चक्रायुधस्येति ॥ महिषस्य तनुर्महिषतनुस्तां बिभ्रतीति
महिषतनुभृत् तस्य महिषतनुभृतो गीर्वाणशत्रोः देवारेः पादेन मृत्यं मरणं कुर्वती
विदधती पार्वती पर्वतपुत्री वो युष्मान् पायात् रक्षतु, किंविशिष्टा पार्वती, हसित "
हरिहरा, हसितो हरिहरी ययेति विग्रहः, कथं (हसित ) हरिहरा इत्येवं क्रोधगर्भं कोधो
गर्भो भवति यस्मिन् हसिते तत् क्रोधगर्भमिति क्रियाविशेषणं तदेव हास्यं हरिहरयोः
क्रमेण प्रतिपादयन्निदमाह, चक्रं चक्रायुधस्येत्यादि, यस्यां महिषतनौ ग्रावणीव च
 
१. ग्रामणीवेति प्रतो ।
२. गुवंतीति प्रतो ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy