This page has not been fully proofread.

पद्याङ्क ७१-७२ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
बाहूत्क्षेपसमुच्छ्वसत्कुचतटप्रान्तस्फुटत्कञ्चुकं'
गम्भीरोदरनाभिम एडलगलकाबीताशुकम् ।
रुद्राण्या महिषासुरव्यतिकरव्यायामरम्यं वपुः
 
.२
 
पर्यस्तावधि बन्ध बन्धुरलसत्केशोच्चयं पातु वः ॥७२॥
 
कं.वृ.-रुद्राण्याः वपु युष्माकं पातु, किंभूतं महिषासुरेण व्यतिकर: संग्रामस्तत्र
व्यायामः प्रयासस्तेन रम्यं मनोहरं, किंभूतं वपुः, वाह्वोरुक्षेपस्तेन समुच्छ्वसन्
उल्लसत् यत् कुचतटं तस्य प्रान्ते स्फुटन् त्रुट्यन् कञ्चुको यत्र तत्, पुनः किंभूतं
गम्भीरोदरन । भिमण्डलगलत्काञ्चीवृतार्द्धाशुकं गम्भीरोदरं गम्भीरमध्यं यत्
नाभिमण्डलं तस्मात् गलत काञ्च्या धृतं काञ्चीघृतं च तत् प्रद्धशुकं च, गम्भीरो-
दरनाभिमण्डलगलच्च तत् काञ्चीघृतार्द्धा शुकं यत्र तत्; अन्यच्च, पर्यस्तः
अवधिर्येन सः पर्यस्तावधिः, बन्धबन्धुरश्चासौ लसच्चासौ केशोच्चयश्च बन्धबन्धु-
रलसत्केशपाशश्च पर्यस्तावधिबन्धबन्धुरलसत्केशोच्चयो यत्र तत् ॥७२॥
 
[ ११६
 
सं.व्या. - ७२. बाह्योत्क्षेपेति ॥ रुद्राण्याः गौर्याः सम्बन्धि वपुः वो युष्मान् पातु
रक्षतु, किंविशिष्टं महिषासुरव्यतिकरव्यायामरम्यं महिषासुरस्य, व्यतिकरो युद्धद्वारे-
युष्माकं दारुणं घोरं दुरितं पापं द्रवयतु नाशयतु, किंविशिष्टा रुद्रारणी, दानवं महिषा ख्यमसुरं
दारयन्ती व्यापादयन्ती, पुनः किं विशिष्टा रुद्राणी, दैत्यंः सुरैश्च तुल्यमेवोच्यमाना, सुरंः देवैः
दैत्यं रसुरंस्तुल्यं युगपद् एवं उच्यमाना सम्बोधिता तदाह, हे निस्त्रिशे अकरुणे ! उरस: ग्रस्य महि-
पत्य विशसनं व्यापादनं नोचितं, हे चण्डि ! कोपने ! महिषवघरूपं घोरं भीषरण कर्म अस्य क्षिप,
अस्योपरि त्वं व्रीडां त्रपां लज्जां कुरु, पशुवध: लज्जाजनकः, दृढं हृदयं यस्मिन् कर्मणि तत्
तथा कुरु, अमून्येतानि शस्त्राण्यायुधानि मुञ्च परिहर, एवं दैत्यं रुच्यमाना; देवंस्तु हे चण्डि !
निस्त्रिशेन खड्गेन उरस: महिषासुरस्य वक्षसः ते विशसनं विदारणं उचितं भविष्यति, यतः
यस्मात् कारणात् अस्य कर्म कृत्यं घोरं दारुणं अस्ति, अस्योपरि त्वं व्रीडां मा कुरु, यदि त्वं
अस्य वधं न करोषि तव कृते लज्जास्पदं एतत् कर्म भविष्यतीति भावः, अपि च, दृढहृदयं कुरु
अपगतकरुणा भूत्वा दानवं जहि, अस्योपरि एतानि शस्त्राणि मुञ्च प्रहर, सर्वैः शस्त्रैः एक-
वारमेव प्रहरेति भाव:; एवं देत्यैः समदं सगवं सदैन्यं सार्जवं तु देवः तुल्यं सदृशं उच्यमाना
रुद्रारणी वः दारुणं दुरितं द्रवयत्विति सम्बन्धः ॥ ७१ ॥
 
१. ज. बाह्योत्क्षेपसमुच्छ्वसत् कुचतटप्रान्तस्फुटत्कञ्चुकं; का. बाहूत्क्षेपसमुल्लसत्कु चतटं
प्रान्तस्फुट कञ्चुकं ।
 
२. का. पार्वत्या । ३. का. महिषासुरव्यतिकरे व्यायामरम्यं; शृंगाररम्यमिति टिप्पणं;
व्याघातरम्यमिति प्रतो ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy