Proofing

✦

This page has been fully proofread once and needs a second look.

T
 
११८ ]
 
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क ७०-७१ व्याख्या
 
सं. व्या. - --७०. चक्षुरिति ॥ चण्ड्याः चण्डिकायाः सन्धयः पीनश्चासौ भागश्च

पीनभागः तस्मिन् पीनभागे उपचितविभागे त्रुटट्यन्तो जयन्ति, कस्मात् हेतोः
त्रुट

त्रट्
यन्तः, स्तनयोर्वलनं तस्य भरः स्तनवलनभरः तस्मात्, किं कुर्वंत्या:वत्याः चण्ड्याः,

चक्षुर्नयनं दिक्षु प्रआशासु क्षिपन्त्याः, सुररिपुषु महिषपक्षेषु शररान् वाबाणान् प्रेरयन्त्याः

प्रेषयन्त्याः, सव्यापसव्यं दक्षिरणापसव्यं वा सव्यं चापसव्यं च सव्यापसव्य-

मिति कृत्वैकभावो द्वन्द्वः, सव्यापसव्यं यथा भवत्येव शरान् मुञ्चन्त्याः, किंविशिष्टं

चक्षुः चलितकमलिनीचारुकोशाभिताम्रं कमलिनी पद्मिनी तस्याः कोश:शः पद्ममध्य-
भां

भा
गः, चलितासौ कमलिनी च चारु स चासौ कोशश्च चारुकोश:शः ( तद्वत् ताम्रं

रक्तं) चलितकमलिनीचारुकोशाभिताम्रं, कथं शरान् क्षिपन्त्याः मन्द्रध्वानानुयातं

मन्द्रश्चासौ ध्वानश्च मन्द्रध्वानः तेन मन्द्रध्वानेन अनुयातं, अन्वितं तद्यथा

भवत्येवं प्रेरयन्त्याः, कस्य मन्द्रध्वानानुयातं पाणेस्तस्य किंविधस्य वलयिनः

वलया विद्यन्तेऽस्येति तद्धित इति, पुनरपि किकिंविशिष्टस्य मुक्तबाणस्य, मुक्ता बाणा

येन इति विग्रहः, कथं मुक्तबाणस्येति क्षिप्रं अत एव देवी वलयहस्ता शीघ्रमुक्त-

बाणस्य अत एव तदीयमन्द्रध्वनिनानुयातः शरान् प्रेरयन्तीत्युक्तम् ॥ ७० ॥

 
निस्त्रिरिंशे नोचितं ते विशसनमुरसश्चण्डि कर्मास्य घोरं
 

व्रीडामस्योपरि त्वं कुरु दृढहृदये !'[‍^१] मुञ्च शस्त्राण्यमूनि ।

इत्थं दैत्यैः सदैन्यं समदमपि सुरै स्तुल्यमेवोच्यमाना
 

रुद्राणी दारुणं वो द्रवयतु दुरितं दानवं दारयन्ती ॥७१॥
 
,
 
कं

 
कुं
. वृ. - --रुद्राणी रुद्रपत्नी वो युष्माकं दुरितं पापं द्रवयतु अपनयतु, किंविशिष्टा

दारुणं रौद्रं दानवं दारयन्ती, किंविशिष्टा दैत्यैः सुरैश्च इत्थं अनेन प्रकारेण

सदैन्यं समदमपि तुल्यं उच्यमाना, तुल्यमिति भिन्नार्थत्वेऽपि समानाक्षरं, दैत्यैः

सदैन्यं देवैः समदमिति विवेकः, इत्थं इति किकिं, दैत्यपक्षे, हे निस्त्रिरिंशे ! हे निर्द्द्ये !

चण्डि ! कोपने ! अस्य पशुमात्रस्य मारणे तव लज्जा न, प्रअमूनि शस्त्राणि मुञ्च

त्यज, श्रअथ देवपक्षे, हे चण्डि ! अस्य उरसः विशसनं विदारणं निस्त्रिरिंशेन खङ्ड्गेन

उचितं यतः प्रअस्य कर्म्म लोकविध्वंसनादिकं घोरं भयङ्करं, हे दृढहृदये ! अस्य

महिषस्योपरि त्वं व्रीडां लज्जां त्यज, परं व्री [376b] डां प्रेरणांरां कुरु विधेहि,

एनं प्रति प्रअमूनि सर्व्वाणि शस्त्राणि मुञ्च क्षिप, श्रअयं सर्व्वासिना (सर्वात्मना ? )

वध्य एव, (अतः) प्रमादं मा कार्षीः ॥७१॥ *
 

 
--------------------
[^
१.] का.० दृढहृदयमिति पपादे ।
 

*इश्लोकस्यास्य व्याख्या प्रतीतौ नोपलब्धा तदस्माभिरेवमनुपूर्यते
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
-
 
--रुद्राणी रुद्रपत्नी वः
 
•