This page has not been fully proofread.

पद्याड ६९-७० व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
[ ११७
 
भार्या तस्याः विक्रमे अतिशयोक्ती, कि कृत्वा विस्मितं, इत्युक्त्वा एवमभिवाय,
कथं तदुच्यते देवारेरित्यादि, हे भगवन् हे शङ्कर असो पद्मसद्मा देवा रेर्देवशत्रोः
महिषस्य महिषछद्मनः मायामहिपात् द्रुतं क्षिप्रं इह विद्राति पलायति (ते) ग्लायति
अत्र तव किं चित्रं आश्चर्यं अपि तु न किमपि, भवन्नाभिजातो यतः सः, हे भगवन्
शङ्कर इत्यध्याहार्यं, साहचर्यात् नाभेजतो नाभिजातो यस्मात् स, कस्य नाभिजातो
दानवारेविष्णोस्तस्य दानवारेर्नाभिजातस्य शत्रुभावत्वात्तवरेर्भयमुपपद्यते एव इति
भावः, न केवलं ब्रह्मणो भीतो नान्यात् सकाशात् भूतः स्वयंभूरिव त्वं पुनयंत्
यस्मात् समरभुवि नाभिभूः, अतो विस्मिताऽहं, अत्र पक्षेऽतीतेऽपि तु भीत इति द्वो
प्रतिषेधौ प्रकृतमर्थं गमयत: अत्राद्यमिति शब्दद्वयं उभयवाक्यसमाप्तौ द्रष्टव्यं
तृतीयस्त्वेवमर्थमिति ॥ ६६ ॥
 
* चक्षुर्दिक्षु क्षिपन्त्याश्चलितकम लिनी चारु कोशा भिताम्र
 
मन्द्रध्वानानुयातं झटिति वलयिनो मुक्तबाणस्य पाणेः ।
चण्ड्याः सव्यापसव्यं सुररिपुषु शरान्प्रेरयन्त्या जयन्ति
 
त्र्युटयन्तः पीनभागे स्तनचलनभरात्' सन्धयः कञ्चुकस्य ॥७०॥
 
कं. व. - चण्ड्याः कञ्चुकस्य सन्धयो जयन्ति, स्तनचलनभरात् स्तनयोश्चलनं
स्तनचलनं तस्मात् भरो गुरुत्वं तस्मात् पीनश्चासौ भागश्च पीनभागस्तस्मिन्
पीनभागे उपरितनभागे त्रुटचन्तः, किविशिष्टायाः चण्डया:, सुररिपुषु देवशत्रुषु
शरान् प्रेरयन्त्याः क्षिपन्त्याः, कथं यथा भवति सव्यं च अपसव्यं च सव्यापसव्यं
तद्यथा भवति तथा, क्रियाविशेषणानां एकवद्भावो नपुंसकत्वं च, पुनः कि कुर्वन्त्या
दिक्षु चक्षुः क्षिपन्त्याः, किंभूतं चक्षुः चारुश्चासो कोशश्च चारुकोशः, कम-
लिन्याश्चारुकोशः कमलिनीचारुकोश:, चलितश्चासी कमलिनीचारुकोशश्च
चलितकमलिनीचारुकोशः तद्वदाताम्र, कथं शरान् क्षिपन्त्या, पाणेर्मन्द्रध्वानानु-
यातं यथा भवति तथा, मन्द्रध्वानानुगतं यथा भवति तथेत्यर्थः, किंभूतस्य पाणेः,
झटिति मुक्तबाणस्य शीघ्रं मुक्तशरस्य, पुनः किंभूतस्य, वलयानि विद्यन्ते यस्मि-
निति वलयी तस्य वलयिनः ॥७०॥
 
-
 
* जयपुरसंग्रहस्थायां प्रती इलोकोऽयं व्युत्क्रमेण ७१ संख्यायां लिखितः, काध्यमाला.
 
प्रतावपि संख्याऽस्य ७१ एव ।
 
T
 
१. ज. का. स्तनवलनभरात् ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy