This page has been fully proofread once and needs a second look.

धाम तेजो यस्य स यामिनीधामा कृष्णप्रभ इत्यर्थः, यस्मिन् <error>यमिनी</error><fix>यामिनी</fix>धाम्नि महिषे
प्रांशुत्वात् सप्तयोऽश्वाः सप्त तपनभृतः आदित्यस्य श्रमार्त्ता इव विश्राम्यन्ति खेदं
मुञ्चन्ति, रात्रौ किन्न भानोरश्वाः विश्राम्यन्तीति भावः, यत्र महिषे रजनीतेजसि
स्थितिमुषि अवस्थितिहानौ सप्तापि लोकाः सुप्ताः शयिताः निर्व्यापारीभूता
इत्यर्थः ॥ ६८
 
देवारेर्दानवारे[^१] द्रुतमिह महिषच्छद्मनः पद्मसद्मा
विद्रातीत्यत्र चित्रं तव किमिति भवन्नाभिजातो यतः सः ।
नाभीतो[^२]ऽभूत्स्वयम्भूरपि[^३] समरभुवि त्वं तु यद्विस्मिताऽस्मी[^४]-
त्युक्त्वा[^५] तद्विस्मितं वः स्मररिपुमहिषी विक्रमेऽव्याज्जयायाः[^६] ॥६९॥
 
कुं. वृ.--जयायाः विस्मितं विस्मयोऽव्यात्, क्व स्मररिपुमहिषोविक्रमे स्मररिपो-
र्महेश्वरस्य महिषी तस्या विक्रमस्तत्र विक्रमे, किं कृत्वा इति उक्त्वा इति अभिधाय,
इतीति किं, हे दानवारे ! विष्णो ! यत् पद्मसद्मा इह सङ्ग्रामे द्रुतं शीघ्रं महिष-
च्छद्मनो मायामहिषात् देवारेः सकाशात् विद्राति पलायते इ[37a]त्यत्र तव
किमिव चित्रं अपि तु न किमपि, यतः स पद्मसद्मा भवन्नाभिजातः भवतो नाभि-
र्भवन्नाभिस्तस्या जातो भवन्नाभिजातः, अत्रायमभिसन्धिः, दानवानां अरिर्विष्णु-
स्तन्नाभिजातत्वात् ब्रह्मणो देवारेः सकाशाद्भयं भवत्येव, हे विष्णो ! अत्राहं
विस्मिताऽस्मि यतो न केवलं स्वयम्भूर्ब्रह्मा नाभीतोऽभूत् नु पुनः समरभुवि
त्वमपि स्वयम्भूरपि नाभीतो भूः, अत्र नाभीशब्दश्छलास्पदं, ब्रह्मपक्षे नाभीतो
नाभिसकाशात्, पञ्चम्यास्तस्य तसिलिति तसुप्प्रत्ययान्तं, विष्णुपक्षे न भीतोऽभीतः
न अभीतः किन्तु भीत इत्यर्थः, महिषवदिति यावत्, द्वौ नञौ प्रकृतमेवार्थं गमयतः ॥६९॥
 
सं. व्या.--६. देवारेरिति ॥ जयया गौरीप्रतीहार्या यद्विस्मितं स विस्मयः वो
युष्मान् अव्यात् पातु, क्व विस्मितं स्मररिपुमहषीविक्रमे स्मररिपोर्या महिषी
 
---------------------------
[^१] का० दानवारेः ।
[^२] का० नो भीतो ।
[^३] का० स्वयंभूरिव ।
[^४-५] का० विस्मितास्माॅंस्त्यक्त्वा । विस्मितासीत्युक्त्वा चेति पाठान्तरं पादटिप्पणे
टङ्कितम् ।
[^६] 'जया वः' इति का० प्रतौ टिप्पणे ।