2023-03-13 13:35:19 by ambuda-bot
This page has not been fully proofread.
T
१२६ ]
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क ६८-६९ व्याख्या
धाम तेजो यस्य स यामिनीधामा कृष्णप्रभ इत्यर्थः, यस्मिन् यमिनीधाम्नि महिषे
प्रांशुत्वात् सप्तयोऽश्वाः सप्त तपनभृतः श्रादित्यस्य श्रमार्त्ता इव विश्राम्यन्ति खेदं
मुञ्चन्ति, रात्रौ किन्न भानोरश्वाः विश्राम्यन्तीति भावः, यत्र महिषे रजनीतेजसि
स्थितिमुषि अवस्थितिहानौ सप्तापि लोका: सुप्ता: शयिताः निर्व्यापारीभूता
इत्यर्थः ॥ ६८ ॥
देवारेर्दानवारे' द्रु तमिह महिषच्छद्मनः पद्मसद्मा
विद्रातीत्यत्र चित्रं तव किमिति भवन्नाभिजातो यतः सः ।
नाभीतोऽभूत्स्वयम्भूरपि' समरभुवि त्वं तु यद्विस्मिताऽस्मी -
त्युक्त्वा तद्विस्मितं वः स्मररिपुमहिषी विकसेऽव्याज्जयायाः ॥६६
कुं. वृ. - जयायाः विस्मितं विस्मयोऽव्यात्, क्व स्मररिपुमहिषोविक्रमे स्मररिपो-
महेश्वरस्य महिषी तस्या विक्रमस्तत्र विक्रमे, किं कृत्वा इति उक्त्वा इति अभिधाय,
इतीति किं, हे दानवारे ! विष्णो ! यत् पद्मसद्मा इह सङ्ग्रामे द्रुतं शीघ्र महिष-
च्छद्मनो मायामहिषात् देवारेः सकाशात् विद्राति पलायते इ [ 37a ] त्यत्र तव
किमिव चित्रं अपि तु न किमपि, यतः स पद्मसद्मा भवन्नाभिजातः भवतो नाभि-
भ॑वन्नाभिस्तस्या जातो भवन्नाभिजातः, अत्रायमभिसन्धिः, दानवानां श्ररिविष्णु-
स्तन्नाभिजातत्वात् ब्रह्मणो देवारेः सकाशाद्भयं भवत्येव, हे विष्णो ! अत्राहं
विस्मिताऽस्मि यतो न केवलं स्वयम्भूर्ब्रह्मा नाभीतोऽभूत् नु पुनः समरभुवि
त्वमपि स्वयम्भूरपि नाभीतो भूः, अत्र नाभीशब्दश्छलास्पदं, ब्रह्मपक्षे नाभीतो
नाभिसकाशात्, पञ्चम्यास्तस्य तसिलिति तसुप्प्रत्ययान्तं, विष्णुपक्षे न भीतोऽभीत:
न अभीतः किन्तु भीत इत्यर्थः, महिषवदिति यावत्, द्वौ नञी प्रकृतमेवार्थं गमयतः
॥६६॥
सं. व्या. - ६६. देवा रेरिति ॥ जयया गौरीप्रतीहार्या यद्विस्मितं स विस्मयः वो
युष्मान् श्रव्यात् पातु, क्व विस्मितं स्मररिपुमहषीविक्रमे स्मररिपोर्या महिषी
१. का. दानवारे:
२. का. नो भीतो ।
३. का. स्वयंभूरिव ।
४-५. का, विस्मितास्मांस्त्यवत्वा । विस्मितासीत्युक्त्वा चेति पाठान्तरं पादटिप्पणं
टङ्कितम् ।
६. 'जया वः' इति का प्रती टिप्पणे ।
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy