2023-03-24 10:33:54 by manu_css
This page has been fully proofread once and needs a second look.
इत्युक्त्वा एवमभिधाय, क्व मातुर्महिषवधमहे जनन्या महिषवधमहोत्सवे, कथमभि-
धाय तदुच्यते, भूषां भूयस्तवेत्यादि, कुञ्जरानन ! तवैको (तवैकस्मिन्) विषाणः
(विषाणे) तत्र दैत्येन महिषितवपुषा महिषाकृतिशरीरेण दर्प्पात् भग्ने सति किं
विषण्णो विद्राणः, भूयः पुनस्तवाद्य अधुना शोभां भूषां द्विगुणतरं तथा भवत्ये
वमेषोऽहं दातुमेव लग्न इति ॥ ६७ ॥
विश्राम्यन्ति श्रमार्ता इव तपनभृतः सप्तयः सप्त यस्मिन्
सुप्ताः सप्ताऽपि लोकाः स्थितिमुषि महिषे यामिनीधाम्नि यत्र ।
धाराणां रौधिरीणामरुणिमरभसा[^१] सान्द्रसन्ध्यां दधान-
स्तस्य ध्वंसात्सुताद्रेरपरदिनपतिः पातु वः पादपातैः ॥ ६८॥
कुं. वृ.--अद्रेः सुता वः पातु, किंविशिष्टा अपरदिनपतिः, दिनपतिरेव दिनपतिः
अपरश्चासौ दिनपतिश्च अपरदिनपतिः, किंविशिष्टा पादपातैश्चरणप्रहारैस्तस्य
महिषस्य ध्वंसात् सान्द्रसन्ध्यां दधाना, सन्धौ भवा सन्ध्या सान्द्रा चासौ सन्ध्या
च सान्द्रसन्ध्या तां, महिषप्रादुर्भावरात्रिस्तद्विनाशं प्राप्य प्रकाशदिनलक्षणां, केन
रौधिरीणां धाराणां अरुणिमरभसा रुधिरस्य इमा रौधिर्यः तासां, अरुणस्य
भावः अरुणिमा तस्य रभसा यस्मिन् महिषे सप्त सप्तयः सप्त सूर्याश्वाः विश्रा-
म्यन्ति रविमार्ग्गावरोधात् चलितुं न शक्नुवन्ति, किंभूताः तपनं सूर्यं बिभ्रतीति
तपनभृतस्तस्य, उत्प्रेक्ष्यन्ते, श्रमार्ता इव खेदं प्राप्ता इव; अन्यच्च, यत्र सप्ताऽपि लोकाः
सुप्ता इव तद्व्यापारहरणात्, किंविशिष्टे महिषे स्थितिं मुष्णातीति स्थितिमुदट्
तस्मिन् स्थितिमुषि, सूर्यादीनां स्वस्वाधिकारस्थितिः, पुनः किंभूते यामिन्या धामेव
धाम यस्य स यामिनीधामा तस्मिन् यामिनीधाम्नि, दिनपतिरपि पादपातैः किरण-
प्रसारै: यामिनीं विध्वस्य अरुणां सान्द्रसन्ध्यां विदधाति, यत्र यामिन्यां सूर्य्यवाहा
विश्राम्यन्ति यामिन्यपि स्थितिमुट् इति लोकव्यापारहारिणी भवति ।
सं.व्या.--६८. विश्राम्यन्तीति । अपरश्चासौ दिनपतिश्च अपरोऽर्कः, अद्रेः सुता
पर्वतपुत्री वो युष्मान् पातु रक्षतु, किं कुर्वन् अपरदिनपतिः दधानो धारयन् नभः-
सान्द्रसंध्यां सान्द्रा घना चासौ संध्या च सान्द्रसन्ध्या नभसि सान्द्रा संध्या सान्द्र-
संध्यानभः सान्द्रसन्ध्यानां क्व सति, रौधिरीणां धाराणां अरुणिमनि अरुणे सति,
कुतो रौधिरीणां धाराणां इति तस्य यामिनीधाम्नो महिषस्य ध्वंसात्, कैः पाद-
पातैः चरणपातैः अन्यत्र किरणपातैः, रात्रिविध्वंसात्, यामिनी रात्रिस्तस्या इव
-------------------------
[^१] ज.० का.० रौधिरीणामरुणिमनि नभः ।

[^१] ज