2023-03-31 06:24:34 by manu_css
This page has been fully proofread once and needs a second look.
महिषरूपिरणं दानवं निघ्नती निपातयन्ती, किमिव अतिरुषं, अतिशया रुट् यस्य सः
तथोक्तं, कथं निघ्नती निर्विघ्नं विघ्नरहितं, अनेनैतदुक्तं भवति अतिशयकोपेनापि
महिषेणापि निघ्नन्त्या देव्या न कोऽपि विघ्नं कर्त्तुं शक्त इति, न तु रुद्रादिषु
देवेषु योद्धृमुख्येषु सत्सु स्त्रीत्वाच्च भवान्या महिषव्यापादने कोऽधिकार इति चेत्
तत्राह, विद्राणे रुद्रवृन्दे इत्यादि, रुद्राणां वृन्दं रुद्रवृन्दं तस्मिन् विद्राणे ग्लाने,
सवितरि सूर्ये तेजस्विनामग्रगण्यामपि [गण्येऽपि तरले सति, वज्रमस्यास्तीति
वज्री तस्मिन् वज्रिणि देवराजे ध्वस्तवज्रे सति, ध्वस्तं वज्रं यस्येति विग्रहः,
शशाङ्के चन्द्रे अमृतवृष्ट्या जडीकरणसमर्थेऽपि जाताशड़्केऽपि जातत्रासेऽपि सति,
बलवतां धुर्येऽपि मरुति विरमति योद्धुं विरामं कुर्वति सति, त्यक्तं वैरं येन सः
त्यक्तवैरः तस्मिन् त्यक्तवैरे सति कुबेरे धनदे, असुरनिधनकारिण्यपि वैकुण्ठेऽपि
विष्णौ कुण्ठितास्त्रे सति, कुण्ठितं अस्त्रमस्येति विग्रहः, सर्वत्रात्र स यस्य स भावेन
भावलक्षणमिति सप्तमी, एवंविधेषु तेषु सत्सु किंविधा भवानी, पौरुषोपघ्ननिघ्ना
पौरुषस्योपघ्नस्तेन निघ्ना पौरुषोपघ्ननिघ्ना पौरुषाकारं यस्याश्रयेण साध्वसं
महिषं निघ्नतीति सम्बन्धः ॥ ६६ ॥
भूषां भूयस्तवाद्य द्विगुणतरमहं दातुमेवैष लग्नो
भग्ने दैत्येन दर्प्पान्महिषितवपुषा किं विषाणे विषण्णः ।
इत्युक्त्वा पातु मातुर्महिषवधमहे कुञ्जरेन्द्राननस्य
न्यस्यन्नास्ये गुहो वः स्मितसितरुचिनी द्वेषिणो द्वे विषाणे ॥६७॥
कुं.० वृ.०--गुहः कुमारो वः पातु, किं कुर्वन् गजेन्द्राननस्य (कुञ्जरेन्द्राननस्य)
गजेन्द्रस्य आननमिव आननं यस्य स गजेन्द्राननः, तस्य आस्ये मुखे द्वेषिणो महिषस्य
द्वे विषाणे द्वे शृङ्गे न्यस्यन् आरोपयन्, किंविशिष्टे विषाणे मातुः स्मितसित-
रुचिनी, स्मितेन सिता रुचिर्ययोस्ते स्मितसितरुचिनी, क्व महिषवधमहे महिष-
वधमहोत्सवे, किं कृत्वा इति वक्ष्यमाणं उक्त्वा, इतीति किं, हे गजानन ! त्वं किं
विषण्णः किं खेदं प्राप्तः, क्व सति, विषाणे दन्ते दैत्येन महिषेण दर्प्पात्
रोषात् भग्ने सति, किंविशिष्टेन दैत्येन, महिषितवपुषा, एकोऽहं अद्यैव द्विगुणतरं
भूषां दातुं लग्नः प्रवृत्तः ॥६७॥
सं.० व्या.०--६७. भूषामिति ॥ गुहः कार्तिकेयो वो युष्मान् पातु रक्षतु, किं कुर्वन्
न्यस्यन् निक्षिपन्, आस्ये मुखे द्वे विषाणे उभे श्रृङ्गे द्वेषिणः शत्रोः संबंधिनी,
किंभूते स्मित-(सित)-रुचिनी स्मितेन सिता शुक्ला रुचिर्ययोस्ते तथोक्ते, कस्यास्ये
कुञ्जरेन्द्राननस्य, कुञ्जरेन्द्रस्येव आननं यस्येति विग्रहः, किं कृत्वा विषाणे न्यस्यन्
तथोक्तं, कथं निघ्नती निर्विघ्नं विघ्नरहितं, अनेनैतदुक्तं भवति अतिशयकोपेनापि
महिषेणापि निघ्नन्त्या देव्या न कोऽपि विघ्नं कर्त्तुं शक्त इति, न तु रुद्रादिषु
देवेषु योद्धृमुख्येषु सत्सु स्त्रीत्वाच्च भवान्या महिषव्यापादने कोऽधिकार इति चेत्
तत्राह, विद्राणे रुद्रवृन्दे इत्यादि, रुद्राणां वृन्दं रुद्रवृन्दं तस्मिन् विद्राणे ग्लाने,
सवितरि सूर्ये तेजस्विनामग्रगण्यामपि [गण्येऽपि तरले सति, वज्रमस्यास्तीति
वज्री तस्मिन् वज्रिणि देवराजे ध्वस्तवज्रे सति, ध्वस्तं वज्रं यस्येति विग्रहः,
शशाङ्के चन्द्रे अमृतवृष्ट्या जडीकरणसमर्थेऽपि जाताशड़्केऽपि जातत्रासेऽपि सति,
बलवतां धुर्येऽपि मरुति विरमति योद्धुं विरामं कुर्वति सति, त्यक्तं वैरं येन सः
त्यक्तवैरः तस्मिन् त्यक्तवैरे सति कुबेरे धनदे, असुरनिधनकारिण्यपि वैकुण्ठेऽपि
विष्णौ कुण्ठितास्त्रे सति, कुण्ठितं अस्त्रमस्येति विग्रहः, सर्वत्रात्र स यस्य स भावेन
भावलक्षणमिति सप्तमी, एवंविधेषु तेषु सत्सु किंविधा भवानी, पौरुषोपघ्ननिघ्ना
पौरुषस्योपघ्नस्तेन निघ्ना पौरुषोपघ्ननिघ्ना पौरुषाकारं यस्याश्रयेण साध्वसं
महिषं निघ्नतीति सम्बन्धः ॥
भूषां भूयस्तवाद्य द्विगुणतरमहं दातुमेवैष लग्नो
भग्ने दैत्येन दर्प्पान्महिषितवपुषा किं विषाणे विषण्णः ।
इत्युक्त्वा पातु मातुर्महिषवधमहे कुञ्जरेन्द्राननस्य
न्यस्यन्नास्ये गुहो वः स्मितसितरुचिनी द्वेषिणो द्वे विषाणे ॥६७॥
कुं
गजेन्द्रस्य आननमिव आननं यस्य स गजेन्द्राननः, तस्य आस्ये मुखे द्वेषिणो महिषस्य
द्वे विषाणे द्वे शृङ्गे न्यस्यन् आरोपयन्, किंविशिष्टे विषाणे मातुः स्मितसित-
रुचिनी, स्मितेन सिता रुचिर्ययोस्ते स्मितसितरुचिनी, क्व महिषवधमहे महिष-
वधमहोत्सवे, किं कृत्वा इति वक्ष्यमाणं उक्त्वा, इतीति किं, हे गजानन ! त्वं किं
विषण्णः किं खेदं प्राप्तः, क्व सति, विषाणे दन्ते दैत्येन महिषेण दर्प्पात्
रोषात् भग्ने सति, किंविशिष्टेन दैत्येन, महिषितवपुषा, एकोऽहं अद्यैव द्विगुणतरं
भूषां दातुं लग्नः प्रवृत्तः ॥६७॥
सं