This page has been fully proofread once and needs a second look.

T
 
११० ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ६२-६३ व्याख्या
 
इति विग्रहः, पुनरपि किकिंविशिष्टं सोत्प्रासं सह उत्प्रासेन उल्लण्ठनेन वर्तते इति

सोत्प्रासं, कथं हसितहरं एवमित्थं तदुच्यते, हे पिनाकिन् ! मम शृङ्गे विषाणे द्वे,

ऊर्ध्वं दृष्टि: ऊर्ध्वदृष्टिस्तया ऊर्ध्वदृष्ट्या पश्यावलोकय अधिकतरं सातिशयं

अतनुः सन् न हतः पुष्पायुधः कामोऽस्मि, न तनुः अतनुः अकृश इत्यर्थः, कृत् पक्षे

तु न विद्यते तनुः शरीरं यस्यासौ तनुः कामः एतदुक्तं भवति, कामः स त्वया

ऊर्ध्वदृष्ट्या विलोक्य दग्धः, ग्रहं तु महिषः, त्वया दग्धुं न शक्य इत्यर्थः, यथेच्छं

मम शृङ्गे पश्येति भावः, पुनर्हे पिनाकिन् ! भवतो भीर्न भवति व्यालासङ्गेऽपि

न तव व्यालासङ्गेनापि, ममापि भवतो भीर्न भवति, व्याला उदररास्तेषां सङ्गेऽपि,

न यज्ञोऽस्मि, त्वया ध्वंसितो यज्ञः न सोऽस्मि येन व्यालः सर्पः तस्यासङ्गो

व्यालासङ्गस्तस्मिन्नपि सति नित्यं भवतः त्वत्तः भीर्भयं भवति, नयज्ञोऽस्मि येन

कारणेन नयमहं जानामीति; पिनाकं धनुस्तद्विद्यते यस्येति पिनाकी तस्याऽमन्त्रणं,

हे पिनाकिन् ! त्वं विशेषं तु चक्षुः क्षिप त्वमुच्चै रत्यर्थं •••••••पुनरपि वधे

वधनिमित्तं दानवानां पुरोऽहं एकत्र दानवानां दनुसुतानां पुरोऽग्रतः अहं अस्म्यत्र तु

दानवानां पुरस्तिष्ठ इति ॥ ६२
 
1
 
... ...
 

 
नान्दीशोत्सार्यमाणापसृतिसमनमन्नाकिलोकं'[^१] नुवत्या

नप्तुर्हस्तेन हस्तं तदनुगतगतेः षराण्मुखस्यावलम्ब्य ।

जामातुर्मातृमध्योपगमपरिहृते दर्शने शर्म्म दिश्या-

न्
नेदीयश्च्युम्ब्यमाना'[^२] महिषवधमहे मेनया मूर्य॒ध्न्युमा वः ॥६३॥
 

 
-
 

 
कुं० वृ० - --उमा देवी वो युष्मभ्यं शर्म्म दिश्यात्, महिषवधमहे महिषवध-

महोत्सवे मेनया देवोवीमात्रा मूर्ध्नि चुम्ब्यमाना, कथं यथा भवति नेदोय:दीयः निकटतरं

यथा भवति, क्व सति, जामातुर्दर्शने मातृमध्योपगमपरिहृते, मातृ तॄणां मध्यं तत्र

उपगमः श्रागमनं तेन परिहृतं तस्मिन् परिहृते मातृवृन्दमध्योपसरणेन जामाता

तां न दृष्टवान्; किकिं कृत्वा, नप्तुर्दु हितृपुत्रस्य तदनुगतगतेः, किंभूतया नान्दी-

शोत्सार्यमाणापसृतिसमनमन्ना किलोकं, नुवत्या नान्द्या वाद्यस्य ईशः नान्दीशः तेन

उत्सार्यमाणा या प्रपसृति:तिः अपसरणं तया समं समकालं नमन् नतिं कुर्व्वन्

योऽसौ नाकिलोकः तं नाकिलोकम् ॥६३
 

 
-----------------------
[^
.] ज० नाकिनृत्यं ।
 

[^
.] 'देवी संतुष्यमाणा' इत्यपि पाठः काव्यमालाप्रतीतौ पादटिप्पणे सूचितः ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy