This page has not been fully proofread.

T
 
११० ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ६२-६३ व्याख्या
 
इति विग्रहः, पुनरपि किविशिष्टं सोत्प्रासं सह उत्प्रासेन उल्लण्ठनेन वर्तते इति
सोत्प्रासं, कथं हसितहरं एवमित्थं तदुच्यते, हे पिनाकिन् ! मम शृङ्गे विषाणे द्वे,
ऊर्ध्वं दृष्टि: ऊर्ध्वदृष्टिस्तया ऊर्ध्वदृष्ट्या पश्यावलोकय अधिकतरं सातिशयं
अतनुः सन्न हतः पुष्पायुधः कामोऽस्मि, न तनुः अतनुः अकृश इत्यर्थः, कृत् पक्षे
तु न विद्यते तनुः शरीरं यस्यासौ ऋतनुः कामः एतदुक्त भवति, कामः स त्वया
ऊर्ध्वदृष्ट्या विलोक्य दग्धः, ग्रहं तु महिषः, त्वया दग्धुं न शक्य इत्यर्थः, यथेच्छं
मम शृङ्गे पश्येति भावः, पुनर्हे पिनाकिन् ! भवतो भीर्न भवति व्यालासङ्गेऽपि
न तव व्यालासङ्गेनापि ममापि भवतो भीर्न भवति, व्याला उदररास्तेषां सङ्गेऽपि,
न यज्ञोऽस्मि, त्वया ध्वंसितो यज्ञः न सोऽस्मि येन व्यालः सर्पः तस्यासङ्गो
व्यालासङ्गस्तस्मिन्नपि सति नित्यं भवतः त्वत्तः भीर्भयं भवति, नयज्ञोऽस्मि येन
कारणेन नयमहं जानामीति; पिनाकं धनुस्तद्विद्यते यस्येति पिनाकी तस्याऽमन्त्रणं,
हे पिनाकिन् ! त्वं विशेषं तु चक्षुः क्षिप त्वमुच्चै रत्यर्थं पुनरपि वधे
वधनिमित्तं दानवानां पुरोऽहं एकत्र दानवानां दनुसुतानां पुरोऽग्रतः अहं अस्म्यत्र तु
दानवानां पुरस्तिष्ठ इति ॥ ६२ ॥
 
1
 
... ...
 
नान्दीशोत्सार्यमाणापसृतिसमनमन्नाकिलोकं' नुवत्या
नप्तुर्हस्तेन हस्तं तदनुगतगतेः षरामुखस्यावलम्ब्य ।
जामातुर्मातृमध्योपगमपरिहृते दर्शने शर्म्म दिश्या-
नेदीयश्च्युम्ब्यमाना' महिषवधमहे मेनया मूर्य॒मा वः ॥६३॥
 

 
-
 
कुं० वृ० - उमा देवी वो युष्मभ्यं शर्म्म दिश्यात्, महिषवधमहे महिषवध-
महोत्सवे मेनया देवोमात्रा मूर्ध्नि चुम्ब्यमाना, कथं यथा भवति नेदोय: निकटतरं
यथा भवति, क्व सति, जामातुर्दर्शने मातृमध्योपगमपरिहृते, मातृ णां मध्यं तत्र
उपगमः श्रागमनं तेन परिहृतं तस्मिन् परिहृते मातृवृन्दमध्योपसरणेन जामाता
तां न दृष्टवान्; कि कृत्वा, नप्तुदु हितृपुत्रस्य तदनुगतगतेः, किंभूतया नान्दी-
शोत्सार्यमाणापसृतिसमनमन्ना किलोकं, नुवत्या नान्द्या वाद्यस्य ईशः नान्दीशः तेन
उत्सार्यमाणा या प्रपसृति: अपसरणं तया समं समकालं नमन् नतिं कुर्व्वन्
योऽसौ नाकिलोकः तं नाकिलोकम् ॥६३ ॥
 
१. ज० नाकिनृत्यं ।
 
२. 'देवी संतुष्यमाणा' इत्यपि पाठः काव्यमालाप्रती पादटिप्पणे सूचितः ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy