2023-03-13 13:35:17 by ambuda-bot
This page has not been fully proofread.
T
१०८ ]
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क ६०-६१ व्याख्या
,
विमर्दे युद्धे दितितनयमये दितेस्तनयो महिषस्तत आगतो दितितनयमय इति,
नृहेतुभ्यो रूप्यत इति प्रस्तुतवृत्तेर्मयट् इति मयट् प्रत्ययः तस्मिन् दितितनयमये
विम विद्राणानामिति सम्बन्धः पुनरपि किंविशिष्टानां उत्सवेच्छाहृतानां
महिषहतावुत्सवं कर्म इति या उत्सवेच्छा तयाऽहृतानां एतदुक्तं, पूर्वं महिषादागते
विमर्हे युद्धे शङ्करादयो विद्राणाः, पश्चाद्देव्या महिषवधे कृते सति कुतश्चिन्मिलिता
श्रत एवामीषां हरिहरेन्द्राणां इति विविधानि कर्म्माणि असम्भावनीयानि निदि-
शन्ती देव्याह एष प्लोष्टेत्यादि, पुराणां त्रयं त्रिपुरं एष प्लोष्टा अयं दग्धा
असुहृदुरसः पाटनोऽयं असुहृदो हिरण्यकशिपोर्वक्षोभेत्ता अयं नृसिंहो नरसिंहः
त्वाष्ट्र वृत्रं हन्ता हननसाधुकारी राष्ट्राधिपः स्वर्गमण्डलपतिः ॥६०॥
शत्रौ शातत्रिशूलक्षतवपुषि रुषा प्रोषिते' प्रोतकाष्ठां
काली कीलालकुल्यात्रयमधिकरयं वीच्य विश्वासितद्यौः ।
त्रिस्रोतास्त्र्यम्बकेयं वहति तव भृशं पश्य रक्ता विशेषा-
-
न्नो मूर्ध्ना धार्यते किं हसितपतिरिति प्रीतये कल्पतां वः ॥६१॥
कुं० वृ० – काली दैत्यविनाशार्थमुत्पन्ना देवी वः प्रीतये कल्पतां, किंविशिष्टा
इति हसितपतिः हसितः पतिर्यया सा तथा, किं कृत्वा कीलाल-कुल्यात्रयं
वीक्ष्य, कीलालस्य रुधिरस्य कुल्या कीलालकुल्या तस्याः त्रयं, 'कुल्याऽल्पा
कृत्रिमा सरित्', क्व सति शत्रौ प्रेतकाष्ठां प्रोषिते सति, कथंभूते शात-
त्रिशूलक्षतवपुषि निशित त्रिशूलक्षुण्णवपुषि, निशितः कया रुषा रोषेण, कथं हसित-
पतिरित्याह, हे त्र्यम्बक ! इयं तव त्रिस्स्रोता गङ्गा वहति, किंविशिष्टा भृशं
रक्ता तर्हि विशेषात् तस्याऽपि सविशेषं मूर्ध्नाकि नो धार्यते, या यं अनुरक्ता
भवति स तां दधात्येव, किंविशिष्टं कुल्यात्रयं अधिकरयं अधिकाऽधिकतरो रयो
यस्मिन् तत्, किंविशिष्टा काली विश्वासितद्यौः महिषहननात् दिवो विश्वासो
जातः, किंविशिष्टा त्रिस्रोता: विश्वासितद्यौः (35b) ऊ वधाराव्याजेन दिवो
विश्वसनार्थमिव (स्व) पतिरिति इयं रक्ता सतो वहतीत्ययुक्तं, रक्ता भवति सा
भार्या भवतीत्युपहासार्थः ॥ ६१ ॥
-
सं० व्या० – ६१ शत्राविति ॥ काली कृष्णा भगवती वो युष्माकं प्रीतये
प्रीत्यर्थं कल्पतां जायतां, किंभूता काली हसितपतिः हसितः पतिर्यया सा हसितपतिः
१. ज० का० – प्रेषिते ।
-
२. का० – त्रयमधिकतरमिति पाठः पादटिप्पणे ।
-
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy