This page has not been fully proofread.

पद्याङ्क ५१-६० व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्ति समेतम्
 
[ १०७
 
मत्या: अलज्जितायाः, वव सति त्रिदशरिपुपती असुरस्वामिनि महिपे निहते सति,
कृतकार्यो हि भटः प्रयुक्तानन्यभटान् उपहसन्नपि लज्जते, इदानीं व्याहृतानि प्रति-
पादयन्निदमाह क्षिप्तोऽयं मन्दराद्रिरित्यादि, मन्दरश्चासावद्रिश्च मन्दराद्रिः
मन्दराद्रिरिव श्रयं महिषः, अत्र विनापि यदिवशब्दरुपमा गम्यते यथाग्निर्माणवक
इत्यादि, श्रयं मन्दराद्रिर्महिष अब्धी समुद्रे क्षिप्तो वासुके अहिपते ! भवता त्वया
पुनरपि वेष्टयतां परिवार्यतां पूर्ववदिति भावः अत एवोक्त प्रीयस्वानेनेति भने-
नैतेन महिषेन तार्क्ष्य गरुत्मन् ! प्रीयस्व तृप्तो भव, कि ते तव भक्षितैर्नागैः सर्पः
बिसतनुतनुभिः बिसवत्तन्वी तनुर्वेषां इति विग्रहः, इमं महिषं हरिकरी ऐरावतो-
Sण्टाभिदिग् द्विपेन्द्रैराशाराजगजै: सह न कर्षतीमं महाभारत्वाद्वरिष्ठत्वादिति
 
भावः ॥५६॥
 
एष प्लोष्टा पुराणां त्रयमसुहृदुरः पाटनोऽयं नृसिंहो
 
हन्ता त्वाष्ट्रं द्यु राष्ट्राधिप इति विविधान्युत्सवेच्छाहतानाम् ।
विद्राणानां विमद्द दितितनय[मये] नाकलोकेश्वराणा-
मश्रद्धयानि कर्माण्यवतु विदधती पार्वती वो हतारिः ॥६०॥
 
कुं० वृ० - पार्व्वती वोऽवतु, किंविशिष्टा हतारिः, किकुर्व्वती नाकलोकेश्वराणां
नानाविधानि कर्म्माणि इति श्रद्धेयानि विदधती, श्रद्धाऽणि श्रद्धेयानि; कि-
विशिष्टानां पूर्व्वं उत्सवेच्छाहृतानां, उत्सवस्य इच्छा उत्सवेच्छा तया श्राहृतानां
पश्चाद् दितितनयमये विमर्दे विद्राणानां पलायितानां, दितितनया: प्रधानानि
अस्मिन् कानि तानि कर्म्माणीत्याह, एष पुराणां त्रयं प्लोष्टा, अयं असुहृदुरः -
पाटनो नृसिंहः; अन्यच्च, एष त्वाष्ट्र वृत्र हन्ता, त्वष्टुरपत्यं स्वाष्ट्र, राष्ट्रा-
धिप इन्द्रः, एतदुक्तं भवति हरनृसिंहेन्द्र पुरदाहहिरण्यकशिपोरःपाटनवृत्रहनन-
लक्षणानि कर्म्माणि कृतानि इति यद्वदन्ति तदसम्भाव्यं चेत् एभिस्तानि कृतानि
भवन्ति, तहि महिषसंग्रामे कथं पलायिताः; अथ च, किं कुर्व्वती इति कर्म्माणि
विदधती, किलक्षणानि नाकलोकेश्वराणां अश्रद्धेयानि नाकलोकेश्वरा यानि
कर्म्माणि दृष्ट्वा न स्त्रीकर्म्मत्वेन सम्भावयन्ति, इतीति कि एष ईदृकुकर्म्मणः
कर्त्ता पुरभिद्वा नृसिंहो वा वृत्रहा वा नान्येनेदृक्क कत्तु पार्यंत इति ॥६०॥
 
सं० व्या०-६०. एष प्लोष्टेति । हतो अरिर्महिषो यया सा हतारिः, पार्वती
पर्वंतपुत्री वो युष्मान् अवतु रक्षतु, नाकलोका देवास्तेषामीश्वराः प्रभवो हरा-
दयस्तेषामित्येवं कर्म्माणि विविधानि नानाप्रकाराणि अश्रद्धेयानि असम्भावनीयानि
विदधती कुर्वती, किंभूतानां नाकलोकेश्वराणां विद्राणानां म्लेच्छानां क्व
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy