2023-03-31 06:20:16 by manu_css
This page has been fully proofread once and needs a second look.
सं० व्या०--५८. श्रुत्वेति ॥ अवतं च तत् (त)मश्च अवतमसं तस्य
निरासो अवतमसनिरासस्तस्मै अवतमसनिरासाय सन्तततमोव्युदासार्थं उमा गौरी
वो युष्माकं स्तात् भवतु, दशनानां रुक् दशनरुक् स्मिते कृते या दशनरुक् स्मित-
दशनरुक् तया स्मितदशनरुचा, यस्यां हसन्त्यां अस्मिन् महिषे श्वेतीकृते सति
तुल्य एव एकरूपो हिमाद्रिः द्राक् क्षिप्रं द्राघीयानिव दीर्घ(तर) इव आसीत्
अभूत्, दोषं महिषासुरेण सह हिमाद्रेः सम्बन्धस्तदाह, श्रुत्वा शत्रुं दुहित्रेत्यादि,
अतिजडोऽपि हिमाद्रिरह्नाय क्षिप्रमागतो हर्षात् प्रमोदात् किं कृत्वा आकर्ण्य
महिषं शत्रुं निहतं व्यापादितं दुहित्रा सुतया, किं कुर्वन् यस्याः स्मितेन दशन-
प्रभया धवलीकृते सति महिषे हिमाद्रिरतिशयेन दीर्घ इवासीत् हर्षादाश्लिष्यन्
परिष्वजमानो महिषं शैलकल्पं पर्वतदेश्यं, कयाऽऽश्लिष्यन् विन्ध्यबुद्याष् विन्ध्योऽयं
पर्वत इति धिया, किंविशिष्टो हिमवान् अवनिभृद्बान्धवः अवनिभृतः बान्धवाः
यस्य स तथोक्तः अत एव विन्ध्यबुद्यािश महिषमाश्लिष्यन्नित्युक्तम् ॥५८॥
क्षिप्तोऽयं मन्दराद्रिः पुनरपि भवता वेष्ट्यतां वासुकेऽब्धौ
प्रीयस्वानेन[^१] किं ते बिसतनुतनुभिर्भक्षितैस्तार्क्ष्य नागैः ।
अष्टाभिर्दिगद्विपेन्द्रैः[^२] सह न हरिकरी कर्षतीमं हते वो
ह्रीमत्या[^३] हैमवत्यास्त्रिदशरिपुपतौ[^४] पान्त्विति व्याहृतानि ॥५९॥
कुं० वृ०--हैमवत्याः इति व्याहृतानि भाषितानि वः पान्तु, किंविशिष्टायाः
ह्रीमत्याः लज्जावत्याः क्व सति त्रिदशरिपुपतौ हते सति, इतीति किं अयं इति
महिषं व्यादिश्य वदति, हे वासुके ! अयं मन्दराद्रिः क्षिप्तः, मन्दराद्रिरेव
मन्दराद्रिः, लुप्तोपमा [35a], असौ त्वया पुनरपि प्रागेव वेष्य््तां वेष्टनं क्रियतां;
अन्यच्च, हे तार्क्ष्य ! अनेन महिषेण प्रीयस्व तृप्तिमाप्नुहि, तेन च नागैर्भक्षितैः,
किंविशिष्टैर्नागैः, बिसतनुतनुभिः बिसवत्तन्वी तनुः शरीरं येषां ते तथा तैः कृशै-
रिति यावत्; हरिकरी इन्द्रगजः इमं महिषं न कर्षति, कैः सह अष्टभिर्दिग्गजेन्द्रैः
सह; अत्र हरिकरी आत्मना सह अष्टाभिर्दिग्गजेन्द्रैः इति योजनीयम् ॥५९॥
सं० व्या०--५६९. क्षिप्तोऽयमिति ॥ हैमवत्याः हिमवत्सुतायाः इत्येवं व्या-
हृतानि जल्पितानि वो युष्माकं पान्तु रक्षन्तु, किंविशिष्टायाः हैमवत्याः अह्री-
--------------------------
[^१] का० प्रीतोऽने नैवेति टिप्पण्याम् ।
[^२] ज० का०-- गजेन्द्रैः ।
[^३] ज०-- प्रतौ 'अह्रीमत्या' इति पाठो व्याख्यातः ।
[^४] का०-- टिप्पणे 'त्रिदिवरिपुहतौ’ ।
निरासो अवतमसनिरासस्तस्मै अवतमसनिरासाय सन्तततमोव्युदासार्थं उमा गौरी
वो युष्माकं स्तात् भवतु, दशनानां रुक् दशनरुक् स्मिते कृते या दशनरुक् स्मित-
दशनरुक् तया स्मितदशनरुचा, यस्यां हसन्त्यां अस्मिन् महिषे श्वेतीकृते सति
तुल्य एव एकरूपो हिमाद्रिः द्राक् क्षिप्रं द्राघीयानिव दीर्घ(तर) इव आसीत्
अभूत्, दोषं महिषासुरेण सह हिमाद्रेः सम्बन्धस्तदाह, श्रुत्वा शत्रुं दुहित्रेत्यादि,
अतिजडोऽपि हिमाद्रिरह्नाय क्षिप्रमागतो हर्षात् प्रमोदात् किं कृत्वा आकर्ण्य
महिषं शत्रुं निहतं व्यापादितं दुहित्रा सुतया, किं कुर्वन् यस्याः स्मितेन दशन-
प्रभया धवलीकृते सति महिषे हिमाद्रिरतिशयेन दीर्घ इवासीत् हर्षादाश्लिष्यन्
परिष्वजमानो महिषं शैलकल्पं पर्वतदेश्यं, कयाऽऽश्लिष्यन् विन्ध्यबुद्याष् विन्ध्योऽयं
पर्वत इति धिया, किंविशिष्टो हिमवान् अवनिभृद्बान्धवः अवनिभृतः बान्धवाः
यस्य स तथोक्तः अत एव विन्ध्यबुद्यािश महिषमाश्लिष्यन्नित्युक्तम् ॥५८॥
क्षिप्तोऽयं मन्दराद्रिः पुनरपि भवता वेष्ट्यतां वासुकेऽब्धौ
प्रीयस्वानेन[^१] किं ते बिसतनुतनुभिर्भक्षितैस्तार्क्ष्य नागैः ।
अष्टाभिर्दिगद्विपेन्द्रैः[^२] सह न हरिकरी कर्षतीमं हते वो
ह्रीमत्या[^३] हैमवत्यास्त्रिदशरिपुपतौ[^४] पान्त्विति व्याहृतानि ॥५९॥
कुं० वृ०--हैमवत्याः इति व्याहृतानि भाषितानि वः पान्तु, किंविशिष्टायाः
ह्रीमत्याः लज्जावत्याः क्व सति त्रिदशरिपुपतौ हते सति, इतीति किं अयं इति
महिषं व्यादिश्य वदति, हे वासुके ! अयं मन्दराद्रिः क्षिप्तः, मन्दराद्रिरेव
मन्दराद्रिः, लुप्तोपमा [35a], असौ त्वया पुनरपि प्रागेव वेष्य््तां वेष्टनं क्रियतां;
अन्यच्च, हे तार्क्ष्य ! अनेन महिषेण प्रीयस्व तृप्तिमाप्नुहि, तेन च नागैर्भक्षितैः,
किंविशिष्टैर्नागैः, बिसतनुतनुभिः बिसवत्तन्वी तनुः शरीरं येषां ते तथा तैः कृशै-
रिति यावत्; हरिकरी इन्द्रगजः इमं महिषं न कर्षति, कैः सह अष्टभिर्दिग्गजेन्द्रैः
सह; अत्र हरिकरी आत्मना सह अष्टाभिर्दिग्गजेन्द्रैः इति योजनीयम् ॥५९॥
सं० व्या०--५
हृतानि जल्पितानि वो युष्माकं पान्तु रक्षन्तु, किंविशिष्टायाः हैमवत्याः अह्री-
--------------------------
[^१] का० प्रीतोऽने नैवेति टिप्पण्याम् ।
[^२] ज० का०
[^३] ज०
[^४] का०