This page has not been fully proofread.

T
 
१०६ ]
 
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क ५८-५६ व्याख्या
 
सं० व्या० - ५८. श्रुत्वेति ॥ अवतं च तत् ( त ) मश्च अवतमसं तस्य
निरासो अवतमसनिरासस्तस्मै अवतमसनिरासाय सन्तततमोव्युदासार्थं उमा गौरी
वो युष्माकं स्तात् भवतु, दशनानां रुक् दशनरुक् स्मिते कृते या दशनरुक् स्मित-
दशनरुक् तथा स्मितदशनरुचा, यस्यां हसन्त्यां अस्मिन् महिषे श्वेतीकृते सति
तुल्य एव एकरूपो हिमाद्रिः द्राक् क्षिप्रं द्राघोयानिव दीर्घ ( तर ) इव प्रासीत्
अभूत्, दोषं महिषासुरेण सह हिमाद्रेः सम्बन्धस्तदाह, श्रुत्वा शत्रुं दुहित्रेत्यादि,
अतिजडोऽपि हिमाद्रिरह्नाय क्षिप्रमागतो हर्षात् प्रमोदात् किं कृत्वा आकर्ण्य
महिषं शत्रु निहतं व्यापादितं दुहित्रा सुतया, किं कुर्वन् यस्याः स्मितेन दशन-
प्रभया घवलीकृते सति महिषे हिमाद्रिरतिशयेन दीर्घ इवासीत् हर्षादाश्लिष्यन्
परिष्वजमानो महिषं शैलकल्पं पर्वतदेश्यं, कयाऽऽश्लिष्यन् विन्ध्यबुद्धया विन्ध्योऽयं
पर्वत इति धिया, किविशिष्टो हिमवान् अवनिभृद्बान्धवः नवनिभृतः बान्धवाः
यस्य स तथोक्तः अत एव विन्ध्यबुद्धया महिषमाश्लिष्यन्नित्युक्तम् ॥५८॥
क्षिप्तोऽयं मन्दराद्रिः पुनरपि भवता वेष्टयतां वासुकेऽब्धौ
 
प्रीयस्वानेन' किं ते बिसतनुतनुभिर्भक्षितैस्तार्य नागैः ।
श्रष्टाभिर्दिगद्विपेन्द्रः सह न हरिकरी कर्षतीमं हते वो
 
हीमत्या' हैमवत्या स्त्रिदशरिपुपतौ पान्त्विति व्याहृतानि ॥५६॥
कुं० वृ० - हैमवत्याः इति व्याहृतानि भाषितानि वः पान्तु, किविशिष्टाया:
ह्रीमत्याः लज्जावत्याः क्व सति त्रिदशरिपुपतौ हते सति, इतीति कि अयं इति
महिषं व्यादिश्य वदति, हे वासुके ! श्रयं मन्दराद्रिः क्षिप्तः, मन्दराद्रिरेव
मन्दराद्रिः, लुप्तोपमा [35a ], असो त्वया पुनरपि प्रागेव वेष्टयतां वेष्टनं क्रियतां;
अन्यच्च, हे ताक्ष्यं ! अनेन महिषेण प्रीयस्व तृप्तिमाप्नुहि, तेन च नागंर्भक्षितः,
किविशिष्टर्नागिः, बिसतनुतनुभिः बिसवत्तन्वी तनुः शरीरं येषां ते तथा तैः कृशे-
रिति यावत्; हरिकरी इन्द्रगज: इमं महिषं न कर्षति, कैः सह अष्टभिदिग्गजेन्द्र:
:
सह; अत्र हरिकरी आत्मना सह अष्टाभिदिग्गजेन्द्रैः इति योजनीयम् ॥५६॥
 
सं० व्या०-५६. क्षिप्तोऽयमिति ॥ हैमवत्याः हिमवत्सुतायाः इत्येवं व्या-
हृतानि जल्पितानि वो युष्माकं पान्तु रक्षन्तु, किंविशिष्टाया: हेमवत्याः महो-
१. का० प्रीतोऽने नैवेति टिप्पण्याम् ।
 
२. ज० को० – गजेन्द्रः ।
 
३. ज० – प्रती 'श्रीमत्या' इति पाठो व्याख्यातः ।
४. का० - टिप्पणे 'त्रिदिवरिपुहतो' ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
.