This page has not been fully proofread.

पद्याङ्क ५७-५८ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्ति समेतम्
 
[ १०५
 
रक्षणे इत्यनुमोयते भवद्भिः किंदिशो गृहीताः कुत्सितो मार्ग प्रादृतः, हे
शाङ्गिन् ! सङ्ग्राममुक्त्या सङ्गरत्यागेन लघुरसि गुरुत्वं गतं तर्हि साधु युक्तम्,
एतत् तार्येण गरुडेन त्वं तैक्ष्ण्यं शीघ्रतां गमितः, वेगवत्साहचर्य्यात् वेगवत्ता
युक्ता एव; अन्यच्च, हे स्वर्नाथ इन्द्र ! समरतः सङ्ग्रामात् स्वं ग्रात्मीयं बलं
नश्यत् पलायमानं पश्य, तव नेत्रपङि कर्न उत्खाता, नेत्रपङ्क्तिश्चेद्भवति नश्यवलं
कि न पश्यसि ? ॥ ५७॥
 
सं० व्या०-५७. नष्टानष्टाविति ॥ उमा गौरी वो युष्मान् त्रायतां
रक्षतु, किं कुर्वती असुरं महिषासुर व्यसु गतप्राणं विदवती, किंभूतं इत्येवात्तदर्प
गृहीतगर्वमदं, विगता अव यस्य, तो दर्पो येनेति विग्रहः, कथमात्तदर्प-
मित्याह नष्टानष्टौ गजेन्द्रानित्यादि, हे वसवः यूयं अष्टी गजेन्द्रान् न नवत न
रक्षत कि दिशो द्राक् क्षिप्रं गृहीताः, एतदुक्तं भवति रक्षितदिग्गजानां युष्माकं दिशो
भवन्ति न तु पलायमानानामित्यादि, हे शाङ्गिन् ! विष्णो ! सङ्ग्रामयुक्त्या लघुरसि
सङ् ग्रामयोगे लघुरसि भवसि [इति] साधु युक्त, तार्क्ष्यण गरुडेन तैक्ष्ण्यं तीक्ष्णतां
शीघ्रतां गमितो नीतः, हे स्वर्नाथ स्वर्गपते ! समरतः नश्यत् पलायमानं बलं सैन्यं
स्वमात्मीयं पश्य अवलोकय नेत्रपङ क्तिर्नयनावलिनं तवोत्खातोत्पाटितेति ॥५७॥
श्रुत्वा शत्रुं दुहित्रा निहतमतिजडोऽप्यागतोऽह्नाय हर्षा-
दाश्लिष्यच्छैलकल्पं महिषमवनिभृद्बान्धवो विन्ध्यबुद्धया ।
अस्याः श्वेतीकृतेऽस्मिन् स्मितदशनरुचा तुल्यरूपो हिमाद्रि-
द्रग् द्राधीया निवासीदवतमसनिरासाय' सा स्तादुमा वः ॥५८॥
कुं० वृ० - सा उमा पार्व्वती वो युष्माकं अवतमसनिरासाय अज्ञाननाशाय
स्तात् भवतात्, अवतमसं अन्धकारमिति अवसमन्धेभ्यस्तमस इति प्रव-प्रत्ययान्तं,
यस्याः स्मितेन विशिष्टा दशनाः, स्मितदशनाः स्मितवशात् ईषद्विलोकनीयतां
गतास्तेषां रुक्कान्तिस्तया अस्मिन् महिषे श्वेतीकृते हिमाद्रिक शीघ्रं द्राधीया-
निवासीत् दीर्घतर इवासीत् कथम्भूतो हिमाद्रिः, तुल्यरूपः समानकान्तिः, कि
कुर्व्वन् विन्ध्यबुद्धयाऽचलधिया शैलकल्पं महिषं ग्राश्लिष्यन्, कथं अह्नाय झटिति
अत एव अतिजड एव, यतो महिषविन्ध्ययोविवेकं न अबुद्ध; किविशिष्टो हिमाद्रिः
अवनिभृद्बान्धवः अवनिभृतां पर्व्वतानां बान्धवः, अत एव आलिलिङ्ग,
किंविशिष्टो हिमाद्रिः दुहित्रा शत्रु निहतं श्रुत्वा प्रागतः, कुतः हर्षात् ॥५८ ॥
 
१. का० अतनुजनुनिरासाय इति टिप्पणे ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy