2023-03-13 13:35:14 by ambuda-bot
This page has not been fully proofread.
T
१०४ ]
महाकविवाण-विरचितं चण्डीशतकम्
[ पद्याङ्क ५६-५७ व्याख्या
इत्यर्थः, किंविशिष्टः, परोक्षपरशुः परोक्षे परशुः ( 34b ) यस्य स तथा; अन्यच्च,
शूलेन शून्य: शुलेन रहितः इत्यर्थः, अतः सर्वास्त्रपरिहाणेन पादाङ्गुलीपर्व्वतयुक्तः
महिषस्य दुष्टत्वात् रोषाविष्टया शस्त्राभिहतः स्वर्गं यास्यतीति तान्यपहाय
पादेन मृत्युयुक्तो व्यधायीति व्याकरणं, संग्राममृत्युमधिगम्य दिवं प्रयान्त्विति
वाक्येन विरुध्यते इति कृत्वा परिहृत्येति कृतम् ॥५६॥
-
सं० व्या० - ५६. - प्रप्राप्येष्विति ॥ पर्वाणि संधयस्तानि विद्यन्तेऽस्येति
पर्वतः, पर्वमरुद्भ्यां तन् इति तः पर्व्वतः, पर्वतस्यापत्यं पार्वती पर्वतपुत्री गौरी
इत्यर्थः तया पार्वत्या प्रतिपाल्यतां प्रतिरक्ष्यतां त्रिभुवनं त्रैलोक्यं, किविशिष्टं नि:-
शल्य कल्यं निर्गतं च तत् शल्यं च निःशल्यं निःशल्येन कल्यं (निरामयं, निरा-
तुरं) निःशल्यकल्यं निर्गतमहिषलक्षणेन शल्येन निरातुरमित्यर्थः, यथा पार्वत्या
दैत्यपते मंहिषस्य मृत्युकरणं युज्यत इति भावः, अत एव इषुप्रभृतोन्यायुधानि
निरस्येदमाह अप्राप्येषुः इत्यादि, अप्राप्योऽलभ्य इषुर्यत्र स अप्राप्येषु: विना
प्राणैः प्राप्यासि उदासित: औदासीन्यं गतो निर्व्यापारो ग्रसिः खड्गो यत्र स
उदासितासिः, प्रशनेर्वज्रात् दूरात् दूरतः कुतः कस्मात् कारणात् शङ्कृतः शङ्कवारात्
निकटे अपि कुतश्चेति इदमुक्त' भवति प्रशनेरपि यो दूरभूतः स कथं शङ्कोनिकटो
भवति, चक्रस्य व्युत्क्रमोऽतिक्रमस्तं कृतवान् चक्रव्युत्क्रमकृत् प्रतिक्रान्तचक्र इत्यर्थः
परोक्षोऽसमक्षः परशुः कुठारो यत्र स परोक्षपरशुः, शूलेन शून्यो रहितो मृत्युरिति
सर्वत्र योज्य: ॥ ५६॥
नष्टानष्टौ द्विपेन्द्रानवत' न वसवः किं दिशो द्रागू गृहीताः
शाङ्गिन् ! सङ्ग्राममुक्त्या लघुरसि गमितः साधु तार्येण तैदण्यम् ।
उत्खाता नेत्रपङ्क्तिर्न तव संमरतः पश्य नश्यदूद्बलं स्वं
स्वर्नाथेत्यात्तदर्पं व्यसुमसुरमुमा कुर्व्वती त्रायतां वः ॥ ५७॥
3
कुं० वृ० – उमा वस्त्रायताम्, किंविशिष्टा, असुरं व्यसु कुवंती विगता
प्रसवः प्राणा अस्य व्यसुस्तं किंविशिष्टमसुरं इति श्रात्तदप्पं गृहीतदप्पं इति
वक्ष्यमाणसावलेपव (च) नै: दर्पोऽनुमीयते; इतीति किम्- हे वसवः, नष्टान् अष्टौ
द्विपेन्द्रान् न श्रवत रक्षत, द्राक् शीघ्र पलाय्य किंदिशो गृहीताः अथ गजेन्द्रा-
१. ज० का० गजेन्द्रानवत ।
२० ज० का० सङ्ग्रामयुषत्या ।
३। का० टिप्पणो 'सुरपते' इत्यपि पाठः ।
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy