2023-03-31 06:17:53 by manu_css
This page has been fully proofread once and needs a second look.
(मङ्गलाय) अस्तु भवतु, किंभूता प्रालेयाचल<error>पल्ववैक</error><fix> पल्वलैक</fix> बिसिनी प्रालेयस्याचलः
प्रालेयाचलो हिमाचलः सदेव (स एव) पल्वलं सरः प्रालेयाचलपल्वलं तत्रैक-
बिसिनी पद्मिनी प्रालेयाचलपल्वलैकबिसिनी पद्मिन्या हि पद्मसन्निधौ भ्रमरा इव
भवन्ति इत्यभिप्रायेणाह, यस्याः पादसरोजसीम्नि पाद एव सरोजं चरणपङ्कजं
तस्य सीम्नि पर्यन्ते पादसरोजसीम्नि, यस्याः देव्याः सप्तलोका भृङ्गा इव भ्रमरा
इव भान्ति स्म शुशुभिरे, किंविशिष्टाः सप्तलोकभ्रमराश्च सपक्षपाताः एकत्र पक्ष-
पाताः पक्षपातिनो मरुतो देवास्तेषां लोकानां ते तथोक्ताः भृङ्गा ये लोका
भ्रमराश्च, पूर्वं कीदृशाः महिषस्य क्षोभो महिषक्षोभः तस्मात् महिषक्षोभात्
क्षणं क्षणमात्रं स्तोककालं विद्रुताः विगताः पादसरोजसीम्नीति प्रकृतेन सम्बन्धः,
किंविशिष्टाः पादसरोजसीम्निपतिताः गीत्युत्सवोल्लासिनः उत्सवेन उल्लसितुं
शीलं येषां ते उत्सवोल्लासिनः, गीत्या गानेनोल्लासिनो गीत्युत्सवोल्लासिन
इति ॥ ५५ ॥
अप्राप्येषुरुदासितासिरशनेरारात्कुतः[^१] शङ्कुत-
श्चक्रव्युत्क्रमकृत्परोक्षपरशुः शूलेन शून्यो यया ।
मृत्युर्दैत्यपतेः कृतः सुसदृशः पादाऽङ्गुलीपर्वणा[^२]
पार्व्वत्या प्रतिपाल्यतां त्रिभुवनं निःशल्यकल्यं तया[^३] ॥५६॥
कुं० वृ०--तया पार्व्वत्या त्रिभुवनं (प्रति-)पाल्यतां, पर्वाणि सन्धयो विद्यन्ते-
ऽस्येति पर्व्वतः, पर्व्वमरुद्भ्यां तन्निति तः पर्व्वतः तस्यापत्यं पार्वती, किंभूतं
निःशल्यकल्यं निर्गतं च तच्छल्यं च तेन कल्यं, निर्गतेन महिषलक्षणेन शल्येन
निरातुरमित्यर्थः, तथा, कया यया पार्व्वत्या दैत्यपतेर्महिषस्य मृत्युः सुदृशः कृतः,
पादाङ्गुलीपर्व्वणा पादस्याङ्गुली तस्याः पर्व्व तेन पर्व्वणा पर्वतपुत्र्या हि
पर्वणाऽपरस्य मृत्युर्युज्यत इति, अत एव इषुप्रभृतीन्यायुधानि निरस्ता नीत्यर्थः;
किंभूतो मृत्युः, अप्राप्येषुः प्राप्तुं योग्यः प्राप्यः, न प्राप्यः इषुर्येन स अप्राप्येषुः,
अन्यच्च, उदासितासिः, उदासीकृतः असिर्यस्मात्स उदासितासिः; अन्यच्च,
अशनिः आरात् दूरे अतो हेतोः शङ्कुतः, आरात्समीपे दूरसमीपयोः, कुतः किं-
विशिष्टः चक्रव्युत्क्रमकृत् व्युत्क्रमः अतिक्रमः तं करोतीति कृत्, चक्रातीत
--------------------------
[^१] का० आप्राप्येषु०; अप्राप्तेषुरित्यपि टिप्पण्यां टङ्कितम् ।
[^२] का०-- ०पर्वतः ।
[^३] ज० यया ।

इति ॥

[^२] का०
[^३] ज० यया ।