2023-03-13 13:35:14 by ambuda-bot
This page has not been fully proofread.
पद्याङ्क ५५-५६ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
(मङ्गलाय ) अस्तु भवतु, किंभूता प्रालेयाचलपल्ववैकबिसिनी प्रालेयस्याचलः
प्रालेयाचलो हिमाचलः सदेव ( स एव ) पत्वलं सर: प्रालेयाचलपवलं तत्रैक-
बिसिनी पद्मिनी प्रालेयाचलपल्वले कबिसिनी पद्मिन्या हि पद्मसन्निधौ भ्रमरा इव
भवन्ति इत्यभिप्रायेणाह, यस्याः पादसरोजसीम्नि पाद एव सरोजं चरणपङ्कजं
तस्य सोम्नि पर्यन्ते पादसरोजसीम्नि, यस्याः देव्याः सप्तलोका भृङ्गा इव भ्रमरा
इव भान्ति स्म शुशुभिरे, किंविशिष्टाः सप्तलोकभ्रमराश्च सपक्षपाताः एकत्र पक्ष-
पाता: पक्षपातिनो मरुतो देवास्तेषां लोकानां ते तथोक्ताः भृङ्गा ये लोका
भ्रमराश्च, पूर्वं कीदृशाः महिषस्य क्षोभो महिषक्षोभः तस्मात् महिषक्षोभात्
क्षणं क्षणमात्रं स्तोककालं विद्रुताः विगताः पादसरोजसीम्नीति प्रकृतेन सम्बन्धः,
कि विशिष्टाः पादसरोजसीम्निपतिताः गीत्युत्सवोल्लासिनः उत्सवेन उल्लसितु
शीलं येषां ते उत्सवोल्लासिनः, गीत्या गानेनोल्लासिनो गीत्युत्सवोल्लासिन
इति ॥ ५५ ॥
अप्राप्येषुरुदासिता सिरशनेरारात्कुतः' शङ्कुत-
श्चक्रव्युत्क्रमकृत्परोक्षपरशुः शूलेन शून्यो यया ।
मृत्युर्वैत्यपतेः कृतः सुसदृशः पादाऽङ्गुली पर्वणा
R
पार्व्वत्या प्रतिपाल्यतां त्रिभुवनं निःशल्यकल्यं तया ॥५६॥
कुं० वृ० – तथा पार्व्वत्या त्रिभुवनं (प्रति-) पाल्यतां, पर्वाणि सन्धयो विद्यन्ते-
ऽस्येति पर्व्वतः, पर्व्वमरुद्भ्यां तन्निति तः पर्व्वतः तस्यापत्यं पावंती, किंभूतं
निःशल्यकल्यं निर्गतं च तच्छल्यं च तेन कल्यं, निर्गतेन महिषलक्षणेन शल्येन
निरातुरमित्यर्थः, तथा, कया यया पार्व्वत्या दैत्यपतेर्महिषस्य मृत्युः सुदृशः कृतः,
पादाङ्गुलीपर्व्वणा पादस्याङ गुली तस्याः पर्व्व तेन पर्व्वणा पर्वतपुत्र्या हि
पर्वणाऽपरस्य मृत्युयुज्यत इति, अत एव इषुप्रभृतीन्यायुधानि निरस्ता नीत्यर्थः;
किंभूतो मृत्युः, अप्राप्येषुः प्राप्तु योग्यः प्राप्यः, न प्राप्यः इषुर्येन स श्रप्राप्येषुः,
अन्यच्च, उदासितासिः, उदासीकृतः असिर्यस्मात्स उदासितासिः; अन्यच्च,
प्रशनिः श्रारात् दूरे नतो हेतोः शङ्कुतः, आरात्समीपे दूरसमीपयोः कुतः कि-
विशिष्ट: चक्रव्युत्क्रमकृत् व्युत्क्रमः प्रतिक्रमः तं करोतीति कृत्, चक्रातीत
१. का० आप्राप्येषु०; प्रप्राप्तेषुरित्यपि टिप्पण्यां टङ्कितम् ।
२. का० - ०पर्वतः ।
३. ज० यया ।
T
१०३
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy