Proofing

✦

This page has been fully proofread once and needs a second look.

T
 
१०२ ]
 
महाकविवाण-विरचितं चण्डीशतकम् [ पद्याङ्क ५४-५५ व्याख्या
 
किंभूता नखतितरुचयः जन्यदूत्य:यः जन्यं संग्रामस्तस्मै दूत्यो जन्यदूत्यः, पुनरपि किंभूताः

द्विगुणित रसिताः ऋअतिशयरसिता इत्यर्थः, कस्मात् द्विगुणितरसिता: दर्प्पानल्पाट्ट-

हासात् अट्टो हासो अट्टहास: अल्पश्चासावट्टहासश्च अनल्पाट्टहासः अनल्पश्चासावट्टहासश्च अनल्पाट्टहासः, दर्प्पेणा-

नल्पाट्टहास:सः दर्प्पानल्पाट्टहासः तस्मात् अत एव तर्ज्जन्या नखप्रभाततयो महाट्टहा-

सेनाधिकधवला देव्यास्तर्जयन्त्या अत एव पाण्डुरद्युति ऋतिं अदितेः सुतारातिमापादयन्त्या

इत्युक्ततं, अत्र पक्षे पाण्डुश्चासौ द्युतिश्च पाण्डुद्य युतिः कर्मधारयः तं <error>पाण्डद्युति</error>द्युतिं <fix>पाण्डु</fix> कं

कंसमापादयन्त्याः किं कुर्वत्यास्तर्जयन्त्याः गगनमाकाशं गच्छन्त्या किं कृत्वा

गगनं यान्त्या हस्तादुत्पतन्त्या कंसकरादुत्पत्य, किंविशिष्टटं अदितिसुताराति
तिं
वैलक्षण्येन पाण्डुद्युतितिं विलक्ष्यभावे पाण्डुद्युतितिं कान्तितिं, पाण्डुद्युतिरिति बहुव्रीहिः,

काकाक्षिडोलकन्यायेनात्र पाण्डडुद्युतिशब्दो द्रष्टव्यः, पुनरपि किंभूतं कंसं अगणित-

धैर्यवीर्यावलेपं अगणितो धैर्येणाकातरत्वेन वीर्यावलेपो बलदर्पो येन स तथोक्तस्तं

अत एव वैलक्ष्येणेव पाण्डुद्युतितिं अदितिसुतारातिमित्युक्तम् ॥५४॥
 

 
प्रालेयाचलपल्वलैक बिसिनी साऽऽर्याऽस्तु वः श्रेयसे
 

यस्याः पादसरोजसीम्नि महिषक्षोभात् क्षणं विद्ररुताः ।

निष्पिष्टे पतितास्त्रिविष्टपरिपौ गीत्युत्सवोल्लासिनो
 

लोकाः सप्त सपक्षपातमरुतो भान्ति स्म भृङ्गा इव ॥ ५५॥

 
कुं० वृ० – --सा प्राआर्या वः श्रेयसे प्रअस्तु, सा का प्रालेयाचलपल्वलैक बिसिनी,

प्रालेयाऽचलो हिमवान् स एव पलल्वलं तत्र बिसिनी, पुनः सा का यस्याः पाद-

सरोजसीम्नि चरणकमलनिकटे सप्तलोका आपतिताः सन्तो भृङ्गा भ्रमरा इव

भान्ति स्म भातवन्त इत्यत्र प्रअकारार्थो द्रष्टव्यः; क्व सति त्रिविष्टपरिपौ स्वर्ग-

वैरिणि निष्पिष्टे विचूर्णिते, किंविशिष्टटा लोका:काः गीत्युत्सवोल्लासिनः गीत्या

गीतेन महिषवधाख्य उत्सवस्तेन उल्लसन्ति स्म; अपि च, सपक्षपातमरुतः

सपक्षपातोऽनुकूलो मरुद्वेषां ते तथा, अथवा सह पक्षपातेन स्वकीयभावेन वर्तन्ते

मरुतो देवा येषां ते, किंभूता लोकाः, महिषभयात् क्षणं विद्रुताः पलाय्य गताः,

के इव भृङ्गा इव, भृङ्गा अपि बिसिनीकृतवसतयो भवन्ति, महिषे पत्ल्वलाव-

गाहार्थमागच्छति तत् क्षोभाद्वा पलाय्य विद्रवन्ति, गते तस्मिन् महिषे पुनरा-

गच्छन्ति; अनु च, गीत्युत्सवोल्लासिनो भवन्ति, गाने य उत्सवः गीत्युत्सवः तेन

उल्लसन्तीति; अन्यच्च, सपक्षपातमरुतः पक्षाणां पातः पक्षपातः तेन यो मरुत्

वायुः स पक्षपातमरुत् तेन वर्तन्ते तथा ॥५५॥
 

 
सं० व्या० - -५५. – --प्रालेयेति ॥ सा आर्या देवी वो युष्माकं श्रेयसे
 
-
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy