This page has been fully proofread once and needs a second look.

हस्तादुत्पत्य यान्त्या गगनमगणिताऽवार्यवीर्यावलेपं[^१]
वैलक्ष्येणेव पाण्डुद्युतिमदितिसुतारातिमापादयन्त्याः ।
दर्प्पानल्पाट्टहासाद् द्विगुणितरसिताः[^२] सप्तलोकीजनन्या-
स्तर्ज्जन्या जन्यदूत्यो[^३] नखरुचिररुचस्तर्ज्जयन्त्या[^४] जयन्ति॥५४॥
 
कुं० वृ०--सप्तलोकीजनन्याः नखरुचिररुचो जयन्ति भुवनानि विबध्नीया-
स्त्रीणि सप्त चतुर्द्दशेति कविसमयात्, रुचिराश्चता रुचश्च रुचिररुचः, नखानां
रुचिररुचः नखरुचिररुचः, किंभूता जन्य दूत्य: जन्यः संग्रामः तत्र दूत्य इव दूत्यः,
एतदुक्तं भवति, ताः नखरुचिररुचो देव्याः माहात्म्यं अतिशयेन दीप्तिस्वरूपेण
शत्रुं प्रति प्रकटयन्ति, किं कुर्व्वन्त्या देव्या अदितिसुतारातिं देवशत्रुं तर्ज्जयन्त्याः;
कथा तर्ज्जन्या अङ्गुष्ठाद् द्वितीययाऽङ्गुल्या; अन्यच्च, तमेव पाण्डुरद्युतिं
आपादयन्त्याः पाण्डुश्चासौ द्युतिश्च पाण्डुद्युतिः तां पाण्डुद्युतिं, किं विशिष्टं
दैत्यं वैलक्ष्येणेव पाण्डुद्युतिं पाण्डुर्द्युतिर्यस्येति बहुव्रीहिः, लज्जयेव, किं <error>कुर्वत्या
स्तस्याः</error> कंसहस्तादुत्पत्य गगनं यान्त्याः, कथं यथा भवति तथा, अगणित: अवि-
ज्ञातः अवार्यवीर्यस्य अवलेपो यत्र तत् यथा भवति तथा, अवज्ञां कंसस्य
कृत्वेत्यर्थः, किंविशिष्टं दैत्यं, अगणितं अपरिच्छिन्नं अवार्यं यद् वीर्यं
तेनावलेपो यस्य तं तथाविधं, पुनः किंविशिष्टं दर्प्पानल्पाट्टहासद्विगुणतरसितं
दर्प्पेण बलेन अनल्पः प्रभूतोऽट्टहासः उच्चैर्हसनं तेन(34a) द्विगुणितं द्विगुणीकृतं
रसितं यस्य स तथा तं, किंविशिष्टायाः देव्याः तर्ज्जन्या तर्ज्जयन्त्याः अर्था-
द्दैत्यान्, किंविशिष्टा रुचः दर्प्पेण अनल्पो योऽट्टहासस्तेन द्विगुणतरसिता अति-
शयेनोज्ज्वलाः ॥५४॥
 
सं० व्या०--५४.-- हस्तादिति ॥ नखानां रुचयो नखरुचयस्तासां ततयो
नखरुचिततयः करजकान्तिश्रेणयो जयन्ति, कस्याः सप्तलोकीजनन्याः सप्तानां
लोकानां समाहारः सप्तलोकी द्विगुरयं समासः, सप्तलोक्याः जननी सप्तलोकी-
जननी तस्यास्तथाविधायाः अम्बाया इत्यर्थः, किं कुर्व्वत्याः [तर्जयन्त्याः]
निर्भर्त्सयन्त्याः कया तर्जन्या किं(कं) तर्जयन्त्याः अदितिसुतारातिं कंसासुरं
 
---------------------
[^१] ज० धैर्यवीर्यावलेपं ।
[^२] का० दर्पानल्पाट्टहासद्विगुणतरसिताः ।
[^३] का० <flag>जभ्य</flag>दूतो ।
[^४] ज० का० नखरुचिततयस्तर्ज्जयन्त्याः ।