This page has been fully proofread once and needs a second look.

चक्रे चक्रस्य नास्त्र्या न च खलु परशोर्न क्षुरप्रस्य नासे-
र्यद्वक्त्रं कैतवाविष्कृतमहिषतनौ विद्विषत्याजिभाजि ।
प्रोतात्प्रासेन मूर्ध्नः सघृणमभिमुखायातया कालरात्र्याः[^१]
कल्याणान्याननाब्जं सृजतु तदसृजो धारया वक्रितं वः ॥ ५३॥
 
कुं० वृ०--कालरात्र्याः आननाब्जं वो युष्मभ्यं कल्याणानि सृजतु ददातु,
जगत्संहारकारिणी यत्र प्रलीयते जगत् कालरात्रिः कालभगिनी जगत्प्राणाधि-
देवतेति पुराणात्, किंविशिष्टं तत् यत् तदसृजो धारया वक्रितं वक्रीकृतं तस्य
असृक् तदसृक् तस्य तदसृजः, अयमाशयो रुधिरस्य मुखप्रवेशाऽशङ्कया सघृण-
मिव मत्वा वक्रीकृतमित्यर्थः, किंविशिष्टया धारया अभिमुखमायातया सम्मुखमा-
गतया, कस्मान् मूर्द्धनः शिरसः, किंभूतात् प्रासेन कुन्तेन प्रोतात् विद्धात्,
कस्य सम्बन्धिनो महिषस्य, तदिति किं यत् चक्रस्य अस्त्र्या धारया वक्रं न
चक्रे, च पुनः परशो: कुठारस्य अस्त्र्या नावकृतं चक्रे; अपि च, क्षुरप्रस्य बाण-
विशेषस्यापि अस्त्र्या इति सर्वत्र सम्बन्धः; अन्यच्च, असेः खड्गस्य धारया
विद्विषति शत्रौ आजिभाजि सति संग्रामसेविनि सति, किंभूते तस्मिन् कैतवाविष्कृत-
महिषतनौ कैतवेन धूर्ततया आविष्कृता महिषस्य तनुः शरीरं येन स तथा
तस्मिन् ॥५३॥
 
सं० व्या०--५३. चक्रे चक्रस्येति ॥ आननमेवाब्जं आननाब्जं वदनपद्म
तत् कालरात्र्याः भगवत्याः सम्बन्धि, वो युष्माकं कल्याणानि श्रेयांसि सृजतु
विदधातु, किंविशिष्टं वक्रितं वक्रं कृतं धारया असृजो रुधिरस्य, किंभूतया तया
अभिमुखया सम्मुखागतया कस्मान्मूर्द्धनः शिरसः किमवस्थात् प्रोतात् प्रासेनायुध-
विशेषेण प्रास्य इति प्रासः अपूर्वादस्यतेः कर्म्मणि द्य[य]त्र, कथं वक्रितं सघृणं
यथा भवत्येव, यदा आननाब्जं वक्रं न चक्रे न कृतं चक्रस्यास्त्र्या धारया न च
खलु स्फुटं परशोः कुठारस्य न क्षुरप्रस्यायुधविशेषस्य नासेः खड्गस्यास्त्र्याननाब्जं
वक्रं न चक्रे, महिषस्य तनुः महिषतनुः कैतवेन व्याजेनाविष्कृता प्रकटीकृता
महिषतनुर्येन सः कैतवाविष्कृतमहिषतनुः तस्मिन् विद्विषति शत्रौ आजिभाजि
युद्धजुषि सति युध्यमानेन महिषेण तत्पक्षैर्वासुरैश्चक्रादिधारया देवीमुखं न
वक्रमित्यर्थः ॥५३॥
 
------------------------------
[^१] का०. कालरात्र्या ।